________________
॥ द्वितीयः पादः ॥ रागाटो रक्ते ॥ ६. २. १ ॥
शुक्लस्य वर्णान्तरापादनमिह रञ्जरर्थः, रज्यतेऽनेनेति रागः कुसुम्भादिः । रागविशेषवाचिनो नान्नष्ट इति तृतीयान्ताद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कुसुम्भेन रक्त बलं कौसुम्भम, एवं काषायम्, कौकुमम्, माञ्जिष्ठम्, हारिद्रम्, माहारजनम्, वाधिकारात्पक्षे वाक्यं समासश्च भवति । कुसुम्भेन रक्तम् कुसुम्भरक्तम् इत्यादि । रागादिति किम् ? चैत्रेण रक्तम् । पाणिना रक्तम् । रागशब्देन प्रसिद्धा एव कुसुम्भादयो रागा गृह्यन्ते, तेनेह न भवति । कृष्णेन रक्तम्, लोहितेन रक्तम्, पीतेन रक्तमिति, एते हि वर्णा द्रव्यवृत्तयो न तु रागाख्याः। कथं काषायो गर्दभस्य को हारिद्रो कुकुटस्य पादाविति ? काषायाविव काषायो हारिद्राविव हारिद्रौ इत्युपमानोपमेयभावेन . तद्गुणाध्यारोपाद्भविष्यति ॥ १॥
न्या० स० रागा०-शुक्लस्य वर्णान्तरापादनमिति-उपलक्षणमिदमन्येषामपि वर्णानां वर्णान्तरापादनमिह रब्जेरर्थः।
तृतीयान्तामिति टइत्यकेदेशेन समुदायोपलक्षणत्वात्तृतीया लभ्यते ।
द्रव्यवृत्तय इति द्रव्येषु कुसुम्भादिषु वृत्तिर्येषां द्रव्याश्रयी गुण इति कृत्वा । न तु रागाख्या इति-रज्यते अनेनेति रागशब्दव्युत्पत्तेरघटनात् । लाक्षारोचनादिकण् ॥ ६. २. २॥
लाक्षारोचना इत्येताभ्यां तृतीयान्ताभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो भवति अणोऽपवादः । लाक्षया रकं लाक्षिकम्, रोचनया रक्तम् रोचनिकम् ।।२।। शकलकर्दमादा ॥६. २. ३ ॥
शकल कर्दम इत्येताभ्यां तृतीयान्ताभ्यां रागविशेषवाचिभ्यां रक्तमित्येतस्मिन्नर्थे इकण् प्रत्ययो वा भवति । शकलेन रक्तम् शाकलिकम्, शाकलम्, कादमिकम् कार्दमम् ॥३॥
न्या. स. शकल-शकलं रक्तचन्दनं कधूरवर्णो वा, कर्दमस्तु मृद्विकारविशेषः स पाण्ड्यमण्डले प्रसिद्ध इति विश्रान्तः ।