________________
पाद. १. सू. १४३] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [६१ अपरे दलीप इति प्रकृत्यन्तरमाहुः, तौल्वलि, तेल्वलि, तेल्वकि, धारणि, रामणि, दालीपि, देवोति, देवमति, दैवयज्ञि, प्राटाहति, प्रादाहति, चाफट्टकि, आसुरि, पौष्करसादि, आनुराहति, आनुति, नैमिश्रि, नैमिश्लि, नैमिशि, आशि, बान्धकि, यासि, बाद्धकि, आसिनासि, आसिबद्धकि, चैङ्कि, पौष्पि, आहिसि, वैरकि, वैलकि, वैशीति, वैहति, वैकणि, वार्कलि, कारेणुपालि, इति तौल्वल्यादिः ॥ १४३ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशम्दानुशासनबृहवृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ।।६।१।। श्रीविक्रमादित्यनरेश्वरस्य त्वया न किं विप्रकृतं नरेन्द्र ॥ यशांस्यहार्षीः प्रथमं समंतात्क्षणावभागीरथ राजधानीम् ॥ १॥
न्या० स० प्राच्ये-तौल्वल्यादिर्गणो विचार्यते, तुलण 'तुल्वलेल्वल' ५०० (उणादि) इति तुल्वलः, तिलत् स्नेहने, तिलति 'तुल्वल' ५०० ( उणादि ) इति निपातनात् तिल्वलः, तिलति 'कीचक' ३३ ( उणादि) इति तिल्वकः, धरति नन्या दत्वादने, धरणः, रमते रम्यादित्वादनटि रमणः, 'दलेरीयो दिल च' ३०१ ( उणादि) इति दिलीप, एके तु इदादेश न मन्यते, तन्मते इनि निपातनाभावेऽपि दलीपप्रकृतिः सिद्धा, देवेन सतः, देवेन मन्यते स्म देवमत:, देवेनेज्यते देवयज्ञः, प्रकर्षेण टीकते 'क्वचित्' ५-१-१७१ इति डे प्रटः, तेनाहन्यते स्म प्रटाहतः, प्रकर्षेण ददाति, 'उपसर्ग' ५-१-५६ इति डे प्रदः, तेनाहन्यते स्म प्रदाहतः, चपति “कीचक' ३३ ( उणादि) इति चफट्टकः । .....
असुरस्यापत्यं बाहादि, पुष्करे सीदति बालादि, अनुरहति शतरि बाहादित्वात्, आनूयते स्म आनुतः, नियमेन मिश्रयति अचि निमिश्रः, रस्य रत्वे निमिश्लः, नियमेन मेशतीति निमिशः, अस्यति असतीति वा अंसः, 'दृकृनृस' २७ ( उणादि) इति बन्धकः, यस्यति यसः, बद्धं कायति बद्धकः, असिं नासते असिनासः, असिना बद्धः असिबद्धं कायति असिबद्धकः, चकते अचि पृषोदरादित्वात् चिक्कः, पुष्प्यति पुष्पः, न विद्यते हिंसा यस्य न हिनस्तीति वा अहिंसः, वीरयते वीरकः, रस्य लत्वे बीलकः, विगतं शीतं यस्य विशीतः, विशेषेण हन्यते स्म विहतः, विविधौ विशिष्टौ वा कौं यस्य विकर्णः, वृकं लाति वृकला, बाह्वादित्वादिश् , करेणुं पालयांत करेणुपालः, सर्वत्र 'अत इञ्' ६-१-३१ इति इञ् , इति तौल्वल्यादिगणः संपूर्णः ।।
इत्याचार्य० षष्ठस्याध्यायस्य प्रथमः पादः सम्पूर्णः ।