SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्याससंवलिते [ पा० १. सू० १४२-१४३ ] पैलादेः ॥ ६. १. १४२ ॥ - पैलादिभ्यो यूनि विहितस्य प्रत्ययस्य लुब् भवति, ब्राह्मणार्थमप्राच्यार्थं वचनम् । पीलाया अपत्यं पैलः, पीलासाल्वामण्डूकाद्वा' (६-१-६८) इत्यण, तस्यापत्यं 'द्विस्वरादणः' (६-१-१०९) इत्यायनिञ् तस्य लुप् । पैलः पिता, पैलः पुत्रः, शलङ्कोरपत्यं शालङ्किः । 'शालङ्क्यौदि'-(६-१-३७) इत्यादिना निपातनात्, तस्यापत्यं 'यजिनः' (६-१-५४) इत्यानयण तस्य लुप् । शालङ्किः पिता, शालङ्कि पुत्रः, पैल, शालङ्कि, सात्यकि, सात्यंकामि, औदन्यि, औदश्चि, औदमज्जि, औदवजि, औदभृज्जि, औदमेधि, औदशुद्धि, औदकशुद्धि, देवस्थानि, पैङ्गलोदनि, राणि, राहक्षिति, भौलिङ्ग, औद्राहमानि, . औज्जिहानि, औज्जहानि, इति पैलादिः ।१४२। न्या० स० पैलादेः --पैलादिगणा वित्रियते । सत्यं कायति तस्यापत्यं सात्यकिः । सत्यंशब्दो मकारान्तोऽव्ययोऽति, मत्यं कामयते 'शीलिकामि' ५-१-७३ तस्यापत्यं सात्यकामिः । उदकमिच्छति क्यनि अचि उदन्याया अपत्यं बाह्वादी , यदा तु उदन्यशब्दः पुंलिङ्गस्तदा सत्यपि निकादित्वे अपवादविषये क्वचिदुत्सर्गोऽपि इतोव । उदञ्चतीति क्विप् , बाह्वादित्वादन!यामपि न लोपो, न उदञ्चोऽपत्यं बाह्वादीभि औदञ्चिः । ____ उदकेन मज्जति 'नाम्नुत्तरपद' ३-२-१०७ इति उदभावः, उदके व्रजति उदकं वा व्रजति, उदकं भृज्जति, मूलविभुजादयः, उदकस्य मेघः, उदकेन शुद्ध उदशुद्धः, संझाया अभावे उदादेशाभावे सति उदकशुदः, तिष्ठत्यत्र स्थानं देवानां स्थानं, उदयते उदेति वा नन्यादित्वादने पिङ्गलश्चासावुदयनश्च पिङ्गलोदयनः, रणत्यच् रणः, रहक्षित इति चिन्त्यं, भलेरिटतौर १०३ (उणादि) इति भलिका, उदनाहते आनशि उदनाहमानः, उज्जिहीते आनशि उज्जिहानः, उज्जहे 'तत्र क्वसुकानौ' ५-३-२ इति उज्जहानः, सर्वत्र अपत्यार्थे 'अत इञ्' ६-१-३१ इति इव । प्राच्येजोऽतौल्वल्यादेः ॥ ६. १. १४३ ॥ ___ प्राच्यगोत्रे य इञ् तदन्तात्तौल्वल्यादिवजितात् यून्यपत्ये विहितस्य प्रत्ययस्य लुब् भवति, ब्राह्मणार्थं वचनम् । पान्नागारिः पिता, पान्नागारिः पुत्रः, मान्थरेषणिः पिता, मान्थरेषणिः पुत्रः । क्षरकलम्भिः पिता, क्षैरकलम्भिः पुत्रः, 'अत इञ्' (६-१-३१) ततो 'यजिनः' (६-१-५४) इत्यायन, तस्य लुप् प्राच्यग्रहणं किम् ? दाक्षिः पिता, दाक्षायणः पुत्रः । इत्र इति किम् ? राघवः पिता, राघविः पुत्रः । तौल्वल्यादिवर्जनं किम् ? तौल्वलिः पिता, तौल्वलायनिः पुत्रः, तेल्वलिः पिता, तैल्वलायनः पुत्रः, दालीपि: पिता, दालोपायनः पुत्रः, अत्र दिलीपशब्दस्यात एव निपातनादिनि वृद्धिराकारः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy