________________
५० ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू. १२६ ] भडुङ् 'पुन' २०४ ( उणादि ) इति भडितः। भण्ड्यते स्म भण्डितः । सदा माद्यति स्म सदामत्तः । कम्बलं हरति कम्बलहारः । पर्णवत् आढको देयोऽस्य, कर्ण्यते कर्णः कर्णवदाढको भेद्योऽस्य, बकवत्सक्थ्यस्य, रक्षोवन्मुखं यस्य, जङ्घा रथो यस्य, उत्काशते अच्, कं सुखं ददाति 'पृका' ७२९ इति किदुः । तं मध्नाति, 'मिवमि' ५१ ( उणादि) इति कटुकः तं मथ्नाति, विषं पुटति, मूले निकषन्ति अत्रेति, 'गोचरसंचर' ५-३-१३१ इति कषं कायति, उपरि मेखला यस्य, कडति 'सृपृप्रथि' ३४७ ( उणादि) इति कडमः । कृश्यति 'नाम्युपान्त्य' ६०९ ( उणादि) इतिके कृशः । पटति 'शलिवलि' इति पटाक:, कोष्ठुना पद्यते 'पदरूज' ५-३-१६ इति क्रोष्टुवत्पादौ यस्य, क्रोष्टुवन्माया यस्य, शीर्ष मिमीते, पगेष्ठगे स्थग संवारक लाति, पदयते पदकः, वर्म वपुः कायति, पुष्करे सीदति, विशंत प्रवेशने, 'तङ्कि' ६९२ ( उणादि) इत्यधिकारे रिः विधिः, क्लादीयते कुद्रिः । अजस्येव बस्तिरस्य । यात्रोऽश्यापर्णान्तगोपवनादेः ॥ ६. १. १२६ ॥
यजन्तस्याअन्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप भवति गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा। गोपवनादिविदाद्यन्तर्गणः । गार्ग्यः, गाग्यौं, गर्गाः, वात्स्यः, वात्स्यौ, वत्साः, वैदः, वैदौ, विदाः, और्वः, औौं, उर्वाः, गर्गमयम्, गर्गरूप्यम् अश्यापर्गान्तगोपवनादेरिति किम् ? गौपवनाः, शेग्रवाः, वैन्दवाः, ताजमाः, आश्ववताना:, श्यामाकाः, श्यापर्णाः । केचित्त मठरराजमाऽवतानाऽश्वश्याम्याकशब्दानपि गोपवनादिषु पठन्ति । माठरा इत्यादि । श्यापर्णान्तग्रहणं किम् ? हारितः, हारितो, हरिताः। गोपवनादिग्रहणं किम् ? धेनवः, धनवी, धेनवः । बहुष्वित्येव ? गार्ग्यः, बैदः बैदस्य बैदयोपित्यानि बिदा इत्यत्र विधि लुप्तेऽअन्तं बहुष्विति लुप् । बिबानामपत्यं बैदः बैदौ इत्यत्र त्विनि लुप्तेऽन्तं न बहुष्विति लुप् न भवति । इप्रत्ययंविषयेऽप्यो लुप् न भवति ‘न प्राग्जितीये स्वरे' (६-१-१३५) इति प्रतिषेधात् । बिदानामपत्यं बहवो माणवका बिदा इत्यत्र चाबन्तं बहुष्विति भवत्येव । कश्यपप्रतिकृतयः काश्यपा इत्यत्र यद्यपि प्रत्ययो गोत्र उत्पन्नस्तथापि तदन्तं नेदानी गोत्रबहुत्वे क तहि प्रतिकृतिष्विति लुप् न भवति, अस्त्रियामित्येव । गार्ग्यः, वैद्यः स्त्रियः । पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः दशगर्गः पट इत्यत्र विकणो लुप: पित्त्वात्पु वद्भावेन स्त्रोत्वनिवृत्ते लुप् । गोत्र इत्येव ! औत्साश्छात्त्राः, उत्सादेरञ्, पौनर्भवाः । पौत्राः, दौहित्राः, नानान्द्राः। 'पुनर्भू पुत्रदुहितृननान्दुरनन्तरेऽञ्' (६-१-३९) । पारशवाः। 'परस्त्रियाः परशुश्वासावये' (६-१-४०) इत्यञ् । कथं प्रियो गार्यो गाग्र्यो वा येषां ते प्रियगार्या