________________
[ पाद. १. सू. १२६ - १२७] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः
[ ५१
इति, अत्र हि यजन्तस्य बहुविषयत्वात् लुप् प्राप्नोति ? नैवम्, न यजन्तं बहुषु किं तर्हि समासः स च ' प्रत्ययः प्रकृत्यादेः ' ( ७ - ४ - ११५ ) इति नियमात् यजन्तो न भवतीति लुप् न भवति, प्रिया गर्गा यस्य स प्रियगर्ग इत्यत्र तु यजन्तस्य बहुत्वाद्भवत्येव । १२६ ।
न्या० स० यव्यञोऽश्याप- स्त्रीत्व निवृत्ते लुबिति यदा पञ्चभिर्गार्गीभिः क्रीता इकणू लुप् पुंवत् ततो बाह्यस्त्र्यापेश्नया पञ्चगाय दशगाय इत्येव भवतीति न्यासः, अन सूत्रे गोपवनादौ दुसंज्ञकानां पूर्वाचार्यानुरोधात् पाठः, यावता नास्ति विशेषः, यतोऽनि लुपि सत्यामपि 'न प्राजितीय' ६-१-१३५ इति निषेधात् 'संघघोष ' ६-२-१७२ इत्यादि - नार्णेव भाव्यम् ।
कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥ ६. १. १२७ ।।
कौण्डिन्य आगस्त्य इत्येतयोर्बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानयोर्यञोऽणश्चास्त्रियां लुब् भवति तयोश्च कुण्डिनीअगस्त्य शब्दयोः कुण्डिन अगस्ति इत्येतावादेशौ भवतः आगस्त्यशब्दस्य ऋप्यणन्तत्वात् यजञौ न संभवतः, कुण्डिन्या अत्यं गर्गादित्वाद्यञ्, अत एव निर्देशात्पु वद्भावाभावः । कौण्डिन्यः, कौण्डिन्यो, कुण्डिनाः, मागस्त्य:, आगस्त्यौ, अगस्तयः । प्रत्ययलुपं कृत्वादेश - करणमगस्तीनामिमे आगस्तीया इत्येवमर्थम् । प्रत्ययान्तादेशे हि कृते अगस्तिशब्दस्यादेराकारस्याभावात् वृद्धिर्यस्य स्वरेष्वादिः ( ६-१-८) इति दुसंज्ञा न स्यात्, तदभावे च तन्निमित्तो ' दोरीय:' ( ६-३-३१) इतीय: प्रत्ययोऽपि न स्यात्, यदा तु प्रत्ययस्य लुब् विधीयते तदा स्वरादावीयप्रत्यये भाविनि 'न प्राग्जितीये स्वरे' ( ६-१-१३५ ) इति प्रतिषेधात् प्रत्ययस्य लुब् न भवति, तथा च सति दुसंज्ञत्वात् ईयः सिद्धो भवति । कुण्डिन्यामविशेष:, प्रत्ययान्तादेशे हि कुण्डिनशब्दाददुसंज्ञकात् 'तस्येदम्' (६-३-१५९) इत्यणा भवितव्यम् । प्रत्ययस्य तु लुपि न प्राग्जितीये स्वरे' (६-१-१३५) इति लुप्प्रतिषेधे सत्यामपि दुसंज्ञायामीयप्रत्ययापवादः शकलादित्वादमेव स्यात् अतो न विशेषः । अस्त्रियामित्येव ? कौण्डिन्यः, आगस्त्यः स्त्रियः ॥ १२७॥
"
,
न्या० स० कौण्डिन्या - यत्रत्रौ न संभवत इति तेनास्याण एव लुबित्यर्थः
कुण्डिन्यामविशेष इति ईयप्रत्ययापेक्षमिदमुक्तं अविशेष इति न प्रत्ययान्तर यतः प्रत्ययलोपेऽपि हि 'न प्राजितीये' ६-१-१३५ इति लोपनिषेधे यञन्तात् कुण्डिनानामयं संवादिः इति विवक्षायामण् भवति, तथा च कौण्डिनमिति भवति, सप्रत्ययादेशे ि 'गोत्राददण्ड ' ६-३ - १६९ इत्यकञ् स्यात् तदा कौण्डिनकमिति भवत्यतो विशेषः ।