SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ पाद १. सू. १२५ श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः [ ४९ वर्तत इति अजोऽपि लुप् । द्रेः प्रत्ययस्य बहुषु वर्तमानस्य इति तु विज्ञायमाने न स्यात् । अस्त्रियामिति किम् ? पञ्चालस्यापत्यानि स्त्रियः पाञ्चाल्यः । लौहृध्वज्याः स्त्रियः, पञ्चभिः पाञ्चालीभिः क्रीतः पञ्चपञ्चाल इत्यत्र तु इकणो लुपः पित्त्वात् पुंवद्भावेन स्त्रीत्वनिवृत्तेर्लुप् भवत्येव ।१२४॥ न्या० स० बहुष्व स्त्रियाम्० बहिरङ्गा लुप् बाधते इति अत्र प्रकृतेः पूर्वं पूर्वमित्यन्तरङ्गत्वं बहिरङ्गत्वं च । 6 द्वे अपि लुप तत्कथं बाध्यबाधकभावः ? उच्यते, विधीनिति सामान्यभन अन्तरङ्गा लुप् बाध्यते । इति तु विज्ञायमाने न स्यादिति यदाप्येवं विवक्ष्यते तदापि न भवति, पञ्चालस्यापत्यानि पञ्चालाः । अण् तेषामपत्यं युवा अत इञ् ' ६-१-३१ अत्र प्रथमस्यानो न लुप् 'प्राग्जितीय' ६-१-१३५ इति निषेधात् । ' निदार्ष ' ६-१-१४० इति इञि लुप्तेऽपि न भवति बहुत्वाभावात्, ततः पाञ्चाल इत्येव भवति । यस्कादेर्गोत्रे ॥ ६. १. १२५ ॥ यस्कादिभ्यो यः प्रत्ययो विहितस्तदन्तस्य बहुत्वविशिष्टी गोत्रेऽर्थे वर्तमानस्य यस्कादेर्यः स प्रत्ययस्तस्यास्त्रियां विषये लुप् भवति । यस्कस्यापत्यं यास्कः, याह्कौ, यस्का:, लाह्यः, लाह्यौ, लह्या: शिवाद्यण् । यस्कादेरिति किम् ? उपगोरपश्यमौपगवः, औपगवो, औपगवाः, यास्कायनयः, लाह्यायनयः । गोत्र इति किम् ? यास्काश्छात्त्राः, यस्कस्यापत्यानि यस्काः, तत्प्रतिकृतयो यास्का इत्यत्र गोत्रे उत्पन्नस्यापि प्रत्ययस्य नेदानीं तदन्तं प्रतिकृतिषु वर्तमानं गोत्र इति न भवति । अस्त्रियामित्येव यास्वयः स्त्रियः । यस्क, लह्य, द्रुह्य, अयस्थूण, तृणकर्णं, भलन्दन । एभ्यः शिवाद्यणो लुप्, खरप । अस्मान्नडाद्यायनणः । भडिल, भण्डिल, भडित, भण्डित, एम्योऽश्वाद्याय नमः । सदामत्त, कम्बलहार, पर्णाठक, कर्णाटक, पिण्डीजङ्घ, वकसक्थ, रक्षोमुख, जङ्घारथः उत्काश, कटुमन्थ, कटुकमन्थ, विषपुट, निकष, (किषकः), कषकः, उपरिमेखल, क्वडम, कृश, पटाक, क्रोष्टुपाद, क्रोष्टुमाय, शीर्षमाय, स्थगल, पदक, वंक एभ्योऽत इञः । पुष्करसद्, अस्माद्वाह्लादीनः । विवि, कुद्रि, अजबस्ति, मित्रयु, एभ्यो, शृष्ठ्याधेयत्रः इति यस्कादिः । १२५ । न्या० स० यस्कादेर्गोत्रे-यास्का इति अत्र यदि गोत्रे उत्पन्नस्य प्रत्ययस्य लुबिति व्याख्यायेत तदात्रापि प्राप्नोति गोत्रे प्रत्ययस्योत्पन्नत्वात् न त्वेवं व्याख्यायतेऽपि तु प्रत्ययान्तस्य गोत्रे बहुषु वर्तमानस्येति, ततश्च नेह प्रत्ययान्तं गोत्रबहुत्वे किं तर्हि प्रकृतिबहुत्व इति, अथ यस्कादिगणो विक्रियते । यस्यति 'निष्क' २६ ( उणादि ) इति यस्क: । लहिः सौत्रः । लह्यति द्रुह्यति 'शिक्य' ३६४ ( उणादि ) इपि लह्यः । दुह्यः । अयसः स्थूणा यञ, तृणवत् कर्णौ यस्य, भ भलमन्दति नन्द्यादित्वादन:, ' भण्डेर्न लुक् च ' ४८२ ( उणादि ) इति मलि:, भण्डिलः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy