SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३८] बृहद्दृत्ति-लघुन्याससंवलिते (पा० १. सू० १०० ] शलाका, कालाका, एरका, पदका, खदाका, केशिनी, मति, कवि, हन्ति, पिण्डी, ऐन्द्रजाली, धातुजि, वैराजकि, दामोष्णोषि, गाणकरि, कैशोरि, कापिञ्जलादि, गर्गर, हन, मजूष, अविमारक, अजमारक, चफदक् (चफदृक) कुट, कुटल, मुर, दभ्र, सूर्पणाय, श्यावनाय, श्यावरथ, श्याप्रथ, श्यावप्रथ, श्यापप्रथ, श्यापुवप्रथ, सत्यंकार, वलभीकार, कर्णकार, पथिकार, बृहतीकार, वान्तवृक्ष, आर्द्रवृक्ष, मूढ, शाक, इन, रथकार, नापित, तक्षन्, शुभ्र, इति कुर्वादिः । अत्र हन्त्रन्तानां सामान्याणो हृदिकस्य तु वृष्ण्यणोऽपवादो ज्य: । शलाकादीनां केशिन्यन्तानामेयणः । मानुषीनामत्वेऽणोऽपि केशिनीशब्दस्य स्त्रीलिङ्गपाठादेव पुवद्भावो न भवति । कैशिन्य: पुलिङ्गनिवृत्त्यर्थस्तु स पाठो न भवति । 'गाथिविदथिकेशिपणिगणिनः' (७-४-५४) इत्यपत्येऽण्यन्त्यस्वरादेः लुकप्रतिषेधात्, केशिनशब्दाद्धि ब्यविधानेऽण् न संभवत्येव । मतिकविहन्तिपिण्डीनामेयणः । एन्द्रजाल्यादीनां कापिञ्जलाधन्तानामायनणः । गर्गरादीनामित्रः । तक्षशब्दस्य शिवाधणा समावेशार्थः पाठः, शुभ्रस्यैयणा ।१०० न्या० स० कुर्वा-कुरव इति-कथं तर्हि कौरव्याः पशव इति ? उच्यते, अपत्यस्यापि इदमर्थविवक्षायामुत्साद्यत्रि कौरवास्ततस्तत्र साधाविति ये च भविष्यति । न वाच्यमपत्य एव । उत्साद्यञ् कथं नेति, यतस्तत्रोक्तं कुरोरपत्यं कौरव्य इति ब्यविधौ कुरुशब्दोपादानस्यावकाशत्वाद् भवतीति । ततो यूनि तिकादिपाठात् इति 'दुनादि' ६-१-११८ इति भ्यान्तात् , तिकादौ हि औरससाहचर्यात् कौरव्यशब्दोऽपि राष्ट्रक्षत्रियस्वरूप एव गृह्यते इति वक्ष्यते । कौरव्यायणिरिति कोरव्यशब्दात् क्षत्रियवचनायूनि उत्पन्नस्य आयनिअप्रत्ययस्य 'अब्राह्मणात' ६-१-१४१ इत्यनेन लुप् न भवति विधानसामर्थ्यात् । अस्माच्चेति 'कुर्बादेर्व्यः' ६-१-१०० इति भयान्तात् । तिकादिष्वति पठ्यते इति क्षत्रियवचनो ब्राह्मणो वा तेन पाठसामर्थ्यात् · कौरवाणिरित्यपि भवति । अथ गणःशकानामन्धुरिव पृषोदगदित्वात अलोपः शाकेभ्यो भवति, पन्थानं कगेति, मतिरस्यास्ति, पितरि मन्तुः विप्रियं यस्य, वक्तीत्येवंशीलः, हन्ति तृच्, कालमकति, ईरयति 'कीचक' ३३ ( उणादि) इति, पद्यते 'कीचक' इति एदका, खदनं 'भिदादयः' ५-३-१०८ खदा कार्यात, केशा अस्याः सन्ति, मन्यते कवते मन्यादित्वादिः, वध्यात् हन्तिः, पिण्ते अच् गौरादित्वात् ङ्यां पिण्डी, इन्द्रं जलति तस्यापत्यं धनोः गशेर्जातः तस्यापत्यं, विराजते तस्यापत्यं, दामयुक्तमुष्णीषं यस्य तस्यापत्यं, गणान् करोति तस्यापत्यं, किशोरस्यापत्यं, कपिंजलानादत्ते तस्यापत्यं, गर्ग गति, हन्ति 'पुत' २.४ ( उणादि) इति, 'खलिफलि' ५६० ( उणादि ) इति मञ्जूषः, अवीनामजानां मारकः, दकारो द्विः, 'नाम्युपान्त्य' ४-१-५४ इतिके कुटः, 'तृपिवपि' ४६८ ( उणादि) इति 'कुटलः, 'ऋज्यजि' ३८८ ( उणादि) इति, सूर्प नयति 'कर्मणोऽण् ५-१-६२ श्यावं पिङ्गलं नयति, श्यावः पिङ्गलो रथो यस्य, श्यायन्ते श्याः गासुकारतै प्रथते । श्यावैः पिगलैः प्रथते, श्या गत्वरः पत्रं पुत्रो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy