________________
[ पाद. १. सू. ९६-१०० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [३७ - कुलादीनः ॥ ६. १. ९६ ॥
कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये ईनः प्रत्ययो भवति, कुलस्यापत्यं कुलीनः । ईषदपरिसमाप्तं कुलं बहुकुलम् तस्यापत्यं बहुकुलीनः, क्षत्रियकुलीनः, एषु अत इञः अदोरायनेश्चापवादः । आढपकुलीनः, राजकुलीनः, अत्र 'अवद्धाहोर्नवा' (६-१-११०) इत्यायनिञोऽत इञश्च । उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवलश्च गृह्यते १९६१ यैयकत्रावसमासे वा ॥ ६. १. ६७ ।।
कुलशब्दान्तात्केवलाच्च कुलशब्दादपत्ये य एयका इत्येतो प्रत्ययौ वा भवतः ताभ्यां मुक्ते ईनश्च न चेत् कुलशब्दः समासे वर्तते । कुल्यः कोलेयकः कुलीनः, बहुकुल्यः बाहुकुलेयकः बहुकुलीनः । असमास इति किम् ? माढयकुलीनः ।९७१ दुष्कुलादेयण् वा ।। ६. १. ९८ ॥
दुष्कुलशब्दादपत्ये एयण प्रत्ययो वा भवति । दौष्कुलेयः, दुष्कुलीनः ।९८१ महाकुलादाजीनौ ॥ ६. १. ९९ ।।
महाकुलशब्दादपत्ये अज् ईनञ् इत्येतो प्रत्ययो बा भक्तः ताभ्यां मुक्ते ईनश्च । माहाकुलः, माहाकुलीनः, महाकुलीनः, महेत्याकारनिर्देशात् महतां कुलं महत्कुलं तस्यापत्यं महत्कुलीन इति ईन एव भवति ।९९।
कुर्वादेर्व्यः ॥ ६. १. १००॥ ___कुरु इत्येवमादिभ्योऽपत्ये ज्यः प्रत्ययो भवति । कौरव्यः, अक्षत्रियवचनस्येह कुरोग्रहणम् । क्षत्रियवचनात्त 'दुनादिकुवित्कोशलाजादाभ्यः ' (६-१-११८) इत्यनेन भ्यः, अयं चानयोविशेषः । तस्य दिसंज्ञत्वात् बहुषु लुप् । कुरवः । अस्य तु द्रिसंज्ञाया अभावात् कौरव्याः ततो यूनि तिकादिपाठादायनिञ् । कौरव्यायणिः। अस्माच्चात इब् । तस्य 'बिदाषादणिो:' (६-१-१४०) इति लुप् । कौरच्यः । कुरुशब्दश्च तिकादिष्वपि पठयते । कौरवायणिः, उत्साद्यञ् तु ज्यायनिभ्यां बाधितः कुरुशब्दादपत्ये न भवति । शकु, शाङ्कव्यः, बहुषु शाकव्याः, स्त्री शाङ्कव्या । लोहितादौ पाठात् पौत्रादौ यनि शाङ्कव्यः, बहुषु लुप् शङ्कवः, स्त्री शाङकव्यायनी । कुरु शकु शकन्धु, शाकभू, पथिकास्मि, मतिमत्, पितृमत्, पितृमन्तु, वाच, हन्त, हृदिक,