________________
[पाद. १. सू. १०१-१०४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [३९ यस्य, सत्यं वलमी कर्णान्पन्थानं बृहतीं करोति, वान्तां आर्द्रा वृक्षा यस्य मुह्यति स्म, शक्यते आराधयितुम् ।। ___नापितायनिरिति परत्वात् 'अवृद्धादोर्नवा' ६-१-११० इत्यपि । केशिन्य इति पुंवद्भावे तु कैश्य इति स्यात् स्थिते तु 'अवर्णेवर्णस्य' ७-४-६८ इति स्वरादेशस्य स्थानित्वात् 'नोपदस्य' ७-४-६१ इति न भवति लुक्प्रतिषेधात् इति अयमर्थः केशिन शब्दस्याणि अन्त्यस्वरादिलुक्प्रतिषेधोऽनर्थकः स्यात् यद्यस्मात् यः स्यात् । सम्राजः क्षत्रिये ॥ ६ १. १०१ ।।
सम्राज् इत्येतस्मात् क्षत्त्रियेऽपत्ये ज्यः प्रत्ययो भवति । सम्राजोऽपत्यं साम्राज्यः क्षत्रियश्चेत् । अन्यत्राव साम्राजः, अन्ये साम्राजिरित्याहुः, तत्र सम्राट् बाह्वादिषु द्रष्टव्यः ।१०१। सेनान्तकारुलक्ष्मणादिश् च ॥ ६. १. १०२ ॥
सेनशब्दान्तेभ्य: कारवः कारिणस्तन्तुवायादयस्तद्वाचिभ्यो लक्ष्मणशब्दाच्चाप्रत्ये इञ् प्रत्ययो भवति ज्यश्च । सेनान्त, हारिषेणिः, हारिषेण्यः, वारिषेणिः, वारिषेण्यः, कारु, तान्तुवायिः, तान्तुवाय्यः, तोन्नवायिः, तोन्नवाय्यः, वार्धकिः, वार्धक्यः, कौम्भकारिः, कोम्भकार्यः । रथकारनापिततक्षभ्यो भ्य एव नेञ् कुर्वादिपाठात् । - कुर्वादो जातिवाचिन एव पाठात् रथकारादित्रपीत्येके । लक्ष्मण, लाक्ष्मणिः, लाक्ष्मण्यः । ऋषितृष्ण्यन्धककुरुभ्योऽण् ड्यापत्यूङन्तेभ्यस्त्वेषण परत्वादाभ्यां बाध्यते । जातसे निः, जातसेन्यः, वैष्वक्सेनिः, वैष्वक्सेन्यः । औग्रसेनिः, औग्रसेन्यः, भैमसे निः, भैमसेन्यः । तन्तुवाय्या अपत्यं तान्तुवायिः तान्तुवाथ्य इत्यादि । १०२ ।
मा० स०-सेनान्त हारिणिरिति 'एत्यकः' २-२-२६ इति षत्वम् । जातिवचन एवेति रथकारशब्दोऽजातिवाची चास्ति इत्याह । सुयाम्नः सौवीरेष्वायनिञ् ।। ६. १. १०३ ।।
सुयामनशब्दात्सौवीरेषु जनपदे योऽर्थस्तस्मिन् वर्तमानादपत्ये आयनि प्रत्ययो भवति । सौयामायनिः । सौवीरेभ्योऽन्यत्र सौयामः ।१०३। पाण्टाहतिमिमताण्णश्च ॥ ७. ४. ११५ ॥
पाण्टाहृतिशब्दादिजन्तामिमतशब्दाच्च सौवीरेषु जनपदे योऽर्थस्तस्मिन्वर्तमानाभ्यामपत्येऽण् आयनिञ् च प्रत्ययो भवतः। पाण्टाहृतेरपत्यं युवा