SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ३४ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. १ सू० ८५-८७ । गृष्टयादेः ॥ ६. १. ८४ ।। गृष्टयादिभ्योऽपत्ये एयञ् प्रत्ययो भवति, अणादीनामपवादः । गृष्टेरपत्यं गाष्टयः, हृष्टः हार्टेयः, गृष्टिशब्दो यश्चतुष्पाद्वचनस्ततः पूर्वेणैव सिद्धे अचतुष्पादर्थमुपादानम् । गष्टि, हृष्टि, हलि, वालि, विश्रि, कुद्रि, अजवस्ति, मित्रयु इति गृष्टयादिः । बकारस्य मित्कार्यार्थत्वान्मत्रेय पिता मैत्रेय पुत्रः ।८।। न्या० स० गृष्ट्या-मैत्रेय इति 'सारवैश्वाक' ७-४-३० इत्यादिनाऽयुलोपः, तत इत्र, तस्य 'बिदार्षा' ६-१-१४० इति लोपः । वाडवेयो वृषे ॥ ६. १. ८५॥ वाडवेय इति वडवाशब्दात् वषे एयञ् एयण् वा प्रत्ययो निपात्यते । वषो यो गर्भे बीजं निषिञ्चति । वडवाया वषः वाडवेयः, अपत्येऽणेव भवति, वाडवः । निपातनमेयणेयोरुभयोरपि वृषे व्यवस्थापनार्थम्, अन्यथा अन्यतरोऽपत्ये प्रसज्ज्येत ।८५। न्या० स० वाड-अन्यन्तरोऽपत्ये इति 'दितश्चैयण वा' ६-१-६९ इत्यधिकारे यदि क्रियेत तदैयण चतुष्पाभ्य इत्यधिकारे त्वेयञ् स्यादित्यर्थः । रेवत्यादेरिकण् ॥६. १. ८६ ॥ रेवतीत्येवमादिभ्योऽपत्ये इकण् प्रत्ययो भवति, एयणादीनामपवादः रैवतिकः, आश्वपालिकः । रेवती, अश्वपाली, मणिपाली, द्वारपाली वृकवञ्चिन, वृकग्राह, कर्णग्राह, दण्डग्राह, कुक्कुटाक्ष इति रेवत्यादिः । द्वारपाल्यन्तानामेयणोऽपवादः, यदा मानुषीनाम तदाणोऽपि । कवञ्चिनोऽणः शेषाणामित्रः।८६। न्या० स० रेव-रैवतिक इति रेवते चन्द्रमसं 'पुतपित्त'-इति रेवत्या चन्द्रयुक्तात्कालेऽण् लुप , 'ङयादेः-डोनिवृत्तौ पुनर्जी रेवत्यां जाता, 'भर्तृसंध्यादेरण' 'चित्रारेवती इति लुपि ङीनिवृत्तिः, पुनमः, रेवत्या अपत्यमनेनेकणि 'जातिश्च णि' ३-२-५१ इति भावे 'अवर्णेवर्णस्य ७-४-६८।। वृद्धस्त्रियाः क्षेपे णश्च ॥ ६. १. ८७ ॥ __ वृद्धप्रत्ययान्तात् स्त्रीवाचिनः शब्दादपत्ये णः प्रत्ययो भवति चकारादिकण् च क्षेपे गम्यमाने, पितुरसंविज्ञाने मात्रा व्यवदेशोऽपत्यस्य क्षेपः, गार्या अपत्यं युवा गार्गः गागिको वा जाल्मः, ग्लुचुकायन्या ग्लौचुकायनो ग्लोचुकायनिको वा जाल्मः । म्लुचुकायन्याः म्लौचुकायनः म्लौचुकायनिको वा जाल्मः । 'वृद्धाधुनि' (६-१-३०) इति यूनीमौ प्रत्ययो । वृद्धग्रहणं किम् ? कारिकेयो जाल्मः । स्त्रिया इति किम् ? औपगविर्जाल्मः । क्षेप इति किम् ? गार्गेयो माणवकः, मातुः संविज्ञानार्थम् इदमुच्यते ।८७।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy