________________
[ पाद. १. सू. ८०-८४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [३३ चटकाण्णैरः स्त्रियां तु लुप् ॥ ६. १. ७९ ॥
चटकशब्दात् ङसन्तादपत्यमात्रे गैरः प्रत्ययो भवति स्त्रियां स्वपत्ये विहितस्य गैरस्य लुप् । चटकस्यापत्यं चाटकरः, लिङ्गविशिष्टस्य ग्रहणात् चटकाया अपि चाटकरः स्त्रियां तु लुप, चटकस्य चटकाया वा अपत्यं स्त्री चटका चटकेति जातिशब्दोऽस्त्येव स्त्रियामपत्ये प्रत्ययाश्रवणार्थ लबवचनम् । अस्त्रियामित्येव सिद्धे प्रत्ययान्तरबाधनार्थ रविधानम् ।७९। ___ न्या० स० चटका-चटकेति जातिडीबाधकोऽजादेराप्, क्षिपकादित्वादित्वाभावे प्रत्ययलुपि 'ड्यादेः' २-४-९५ इति आनिवृत्तौ पुनरजादित्वादाप् । चटकेति जातिशब्द इति ।
ननु स्त्रियां लुपा भाव्यं, ततो जातिशब्देनैव सिद्धे किं स्त्रीलिङ्गे चटकशब्दात् प्रत्ययविधानेनेत्याशङ्का । क्षुद्राभ्य एरण वा ॥ ६.१.८० ॥
क्षुद्रा अङ्गहीना अनियतपुस्का वा स्त्रियः, बहुवचनं शूद्रार्थपरिग्रहार्थम् । क्षुद्रावाचिभ्यः शब्देभ्यो ङसन्तेभ्यः स्त्रीलिङ्गेभ्योऽपत्ये एरण् प्रत्ययो वा भवति । अणेयणोरपवादः, काणाया अपत्यं काणेरः, काणेयः, दास्या दासेरः, दासेयः, नाटया नाटेरः, नाटयः, कर्दनायाः कार्दनेरः, कार्दनेय: ।८०।
न्या० स० क्षुद्रा-अणेयणोरपवाद इति 'अदोनदीमानुषी' ६-१-६७ इत्यणः 'द्विस्वरादनद्या' ६-१-७१ ‘ड्याप्ठ्यूङः ६-१-७० इत्येताभ्यामेयणः कर्दना वंशोपरि नर्तकी । गोधाया दुष्टे णारश्च ॥ ६. १.८१ ॥
गोधाशब्दात् डसन्तात् दुष्ठेऽपत्ये णारश्चकारादेरण् च प्रत्ययो भवति । गोधाया अपत्यं दुष्टं गौधारः, गौधेरः, योऽहिना गोधायां जन्यते, गौधेयोऽन्यः । शुभ्रादित्वादेयण् ।८१। जण्टपण्टात् ॥ ६.१. ८२ ॥
जण्टपण्ट इत्येताभ्यामपत्ये णारः प्रत्ययो भवति । जाण्टारः, पाण्टारः । केचित्तु पक्षस्यापत्यं पाक्षार इत्यपीच्छन्ति ।८२॥
चतुष्पाभ्य एयञ् ॥६. १.८३ ॥
चतुष्पाद्वाचिभ्यो ङसन्तेभ्योऽपत्ये एयञ् प्रत्ययो भवति, अणादीनामपवादः । कमण्डल्वा अपत्यं कामण्डलेयः, शितिबाह्वाः, शैतिबाहेयः, मद्रबाह्वा माद्रबाहेयः, जम्ब्वा जाम्बेयः, शबलायाः शाबलेयः, बहुलाया बाहुलेयः, सुरभेः सौरभेयः ।८३॥
न्या० स० चतुष्पा-चत्वारः पादा यासां स्त्रीणामिति कर्त्तव्यं, न तु येषां यतः स्त्रीलिङ्गानामेवेष्यते न पुंलिङ्गानामिति । शबलाया इति-गौरादौ गुणवाचकपरिग्रहात् संज्ञाशब्दान्न की।