________________
३२]
बृहबृत्ति-लघुन्याससंवलिते [पाद. १. सू. ७४-७८ ] जिझमश्नातीत्येवंशीलः, अजस्येव बस्तिरस्य, शकान अन्धयति, परिधीयते' 'मृश्वि' ६२७ (उणादि ) इति शकेरूनिः, अतेरिथिः, अनुदृश्यात् , शलाकावत् लेखावत् भूर्यस्य, विपिन' २८४ ( उणादि ) इति रोहिणी, समस्या अस्ति, विष्टि विगतो वशो यस्या वा, कुबेरस्य तुल्या कुबेरिकाः। ____ अम्बते अम्बायास्तुल्या वा, न विद्यते शोको यस्याः, विगता माता, विगतो धत्रो यस्याः, गुध्यते गोधा, शोभनं दाम नाम यस्याः । श्यामलक्षणादासिष्ठे ॥ ६. १.७४ ।।
श्यामलक्षण इत्येताभ्यां वासिष्ठेऽपत्यविशेषे एयण् प्रत्ययो भवति । श्यामेयो वारिष्ठः । श्यामायनोऽन्यः । अवादित्वात् वृद्धे आयन, अवृद्ध तु श्यामिः, लाक्षणेयो वासिष्ठः, लाक्षणिरन्यः ॥७४॥ विकर्णकुपीतकात्काश्यपे ॥ ६. १.७५ ।।
विकर्णकुपीतक इत्येताभ्यां काश्यपेऽपत्यविशेषे एयण् प्रत्ययो भवति । वैकर्णेयः काश्यपः, वैकणिरन्यः, कौषीतकेयः काश्यपः, कौषीतकिरन्यः ॥७५।।
भ्रवो भ्रव च ॥ ६. १. ७६ ॥
भ्रूशब्दादपत्ये एयण् प्रत्ययो भवति भ्रुव चास्यादेशः । भ्रुवोऽपत्यं भ्रौवेयः ।।७६॥
न्या० स० ध्रुवो-ध्रौवेय इति यथा चुलुकस्याऽपत्यसंभवस्तथा भ्रुवोऽपि । कल्याण्यादेरिन चान्तस्य ॥ ६. १, ७७ ॥
कल्याण्यादिभ्योऽपत्ये एयण् प्रत्ययो भवति इन् इत्ययं चान्तस्यादेशः । कल्याण्या अपत्यं काल्याणिनेयः । सौभागिनेयः । कल्याणी, सुभगा, दुर्भगा, बन्धकी, जरती बलीवर्दी, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्री, अनुष्टि, अनुसृष्टि इति कल्याण्यादिः । परस्त्र्यन्तानां 'ङयाप्स्यूहः' (६-१-७०) इति अनुदृष्टे: 'शुभ्रादिभ्य' (६-१-७३) इति एयण सिद्ध एव इनादेशमात्र विधीयते । अनुसृष्टेरुभयम् ।।७७॥
न्या० स० कल्या-शुभ्रादित्वात आनुदृष्टेयः, कल्याण्यादिपाठात् आनुदृष्टिनेयः । कुलटाया वा ॥ ६. १. ७८॥
कुलान्यटति कुलटा, कुलटाशब्दादपत्ये एयण प्रत्ययो भवति तत्संनियोगे इन् च वान्तादेशः । आवन्तत्वादेयण सिद्ध आदेशार्थं वचनम्, अत एवादेशस्यैव विकल्पो न त्वेयणः । कोलटिनेयः, कौडयः। या तु कुलान्यटन्ती शीलं भिनत्ति ततः परत्वात् क्षुद्रालक्षण एरणेव, कौलटेरः ॥७८॥