________________
[ पाद ४. सू० ८८-९१] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः [३५
न्या० स० वृद्ध-गार्ग इति 'जातिश्च णि तद्धित' ३-२-५१ इति पुंवभावेऽलोपे 'तद्धितयस्वरे' २-४-९२ इति य लुपू । ग्लौचुकायन इति वृद्धेऽपत्येऽदोरायनिः 'नुजति' २-४-७२ डीः, ततोऽनेन णे 'जातिश्च णि' ३-२-५१ इति पुंवत्वे डीनिवृत्ती 'अवर्णेवर्णस्य' ७-४-६८ इति इलोपः । अत्र ण-इकण्प्रत्ययोर्णित्वं ग्लौचुकायन इत्यादी वृद्धेश्चरितार्थ, न वाच्यं ग्लौचुकायनीभार्य इत्यत्र 'तद्धितः स्वरवृद्धि' २-४-९२ इति पुंवन्निषेधादपि, यतोऽत्र वृद्धप्रत्ययान्तादिति भणनात् युनीमो प्रत्ययो स्त्रियाश्च युवत्वाभावादिमौ प्रत्ययौ न भवत इति ग्लौचुकायनीभार्य इति प्रयोगोऽपि न भवति । कार्तिकेय इति कारिकाया 'याप्त्यूङः' ६-१-७० एयण 'तद्धिताककोपान्त्य' ३-२-५४ इति पुंवत्त्वाभावः ।
गार्गेयो माणवक इति नन्विह क्षेपोऽस्त्येवान्यथा माणव इत्यत्र णत्वं न स्यात् ? सत्यं, व्याख्यानात् पितुरसंविज्ञाने यत्र मात्रा व्यपदेशः स इह क्षेपो गृह्यते, यस्त्वन्यथा स नहि । इदमुच्यत इति पिता प्रख्यात एव पर पत्नीबाहुल्ये कस्या अयमित्याह । भ्रातुर्व्यः ॥ ६. १.८८॥
.भ्रातृशब्दादपत्ये व्यः प्रत्ययो भवति । भ्रातुरपत्यं भ्रातृव्यः, शत्रुरपि भ्रातृव्य उच्यते स उपचारात् एकद्रव्याभिलाषश्चोपचारनिमित्तम् ।८८।
ईयः स्वसुश्च ॥ ६. १.८९ ॥ __भ्रातृशब्दात् स्वसृशब्दाच्चापत्ये ईयः प्रत्ययो भवति । भ्रात्रीयः, स्वस्रीयः ।८९॥ मातृपित्रादेयणीयणौ ॥ ६. १. ९० ॥
मातृपितृशब्दावादी अवयवौ यस्य स्वसुः स्वसन्तस्य तस्मात् मातृष्वसृशब्दात् पितृष्वसृशब्दाच्चापत्ये डेयण ईयण् इत्येतो प्रत्ययौ भवतः, वचनभेदान्न यथासंख्यम् । मातृष्वसे यः, मातृष्वस्रीयः, पैतृष्वसेयः, पैतृष्वतीयः । डित्त्वात् डेयणि अन्त्यस्वरादिलोपः, मातृपित्रादेः स्वसन्तस्य ग्रहणादिह न भवति । परममातृष्व सुरपत्यम्, परमपितृष्वसुरपत्यम् । मातृपितृशब्दयोऋकारान्तयोनिर्देशात् इह न भवति । मातुःस्वस्रः, पैतुस्वस्रः, मातुःष्वस्रः, पैतु:ष्वस्रः । अत्र 'अलुपि वा' (२-३-१९) इति विकल्पेन षत्वम् ।९०।
न्या० स० मातृ-माता च पिता च मातृपितरौ, तावादी यस्य शब्दप्रधानत्वात् निर्देशस्य 'आ द्वंदे' ३-३-३९ इति न भवति योनिसंबंधाभावात् । मातृष्वसेय इति-'स्वस्पत्योर्वा' ३-२-३८ इति वा लुपि । श्वशुराद्यः॥ ६. १. ९१ ॥
श्वशुरशब्दादपत्ये यः प्रत्ययो भवति, श्वशुरस्यापत्यं श्वशुर्यः । 'संबन्धिनां संबन्धे' (७-४-१२१) इतीह न भवति, श्वशुरो नाम कश्चित् तस्यापत्यं श्वाशुरिः ।९१॥