________________
[ पाद. १. सू. ५८-६० ] श्री सिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः
जीवन्तपर्वताद्वा ॥ ६. १. ५८ ॥
जीवन्तपर्वताभ्यां वृद्धेऽपत्ये आयनण् प्रत्ययो वा भवति । जैवन्तायनः, जैवन्तिः, पार्वतायनः, पार्वतिः वृद्धे इत्येव ? जैवन्तिः ॥ ५८ ॥ द्रोणाद्वा ॥ ६. १. ५९ ॥
योगविभागाद्वृद्ध इति निवृत्तम्, द्रोणशब्दादपत्यमात्रे आयनण् प्रत्ययो वा भवति । द्रौणायनः, द्रौणिः ।।५९ ॥
शिवादेरण ।। ६. १६० ॥
शिवादिभ्यो ङसन्तेभ्योऽपत्य मात्रेऽण् प्रत्ययो भवति । अत इजादेरपवादः । शिवस्यापत्यं शैवः, प्रौष्ठः, प्रोष्ठिकः । शिव, प्रोष्ठ, प्रोष्ठिक, वष्ट ( चण्ड) जम्ब, जम्भ, ककुभ, कुथार, अनभिम्लान, ककुस्थ, कोहड, क्हूय, रोध, पिलधर, वतण्ड, तृण, कर्ण, क्षोरहूद, जलहूद, परिषिक, शिलिन्द, गोफिल, गोहिल, कपिलक, जटिलक, बधिरक, मजिरक, वृष्णिक, खजार, खञ्जाल, रेख, लेख, आलेखन, वर्तन, ऋक्ष, वर्तनर्क्ष, विकट, पिटाक, तृक्षाक, नभाक, ऊर्णनाभ, सुपिष्ट, पिष्टकर्णक, पर्णक, मसुरकर्ण, मसूरकर्ण, खडूरक, गडेरक, यस्क, लह्य, द्रुह्य, अयस्थूण, भलन्द, भलन्दन, विरूप, विरूपाक्ष, भूरि, संधि, भूमि, मुनि, क्रुश्खा, कोकिला, इला, सपत्नी, जरत्कारु, उत्केया, काय्या, सुरोहिका, पीठीनासा, महित्री, आर्यश्वेता, ऋष्टिषेण गङ्गा, पाण्डु, विपाश, तक्षन् इति शिवादिः । अत्राविरूपाक्षादिञोऽपवादः । भूर्यादीनामा आर्यश्वेताया एयणः, ऋष्टिषेणस्य सेनान्तस्य सेनान्तञ्येञोः, बिदादिपाठादृद्धेऽमेव भवति तदन्ताच्च यूनि ' अत इब्' (६-१ - ३१ ) तस्य त्रिदार्षादणिमोः,(६-१-१४० ) इति लुपि आष्टिषेण: पिता आष्टिषेणः पुत्रः । ॠष्टिषेणस्यापत्यं वृद्धं बहवः विदाद्यम् तस्य यवनः '– (६-१-१२६ ) इत्यादिना लुपि ॠष्टिषेणाः, पाण्डुपाठः शुभ्रायणा गङ्गापाठस्तिकाद्यायनिशा च समावेशार्थ:, तेन पाण्डोद्वैरूप्यं गङ्गायाश्व त्रैरूप्यं सिद्धम् । पाण्डवः, पाण्डवेयः, गाङ्गः, गाङ्गायनिः, गाङ्गेयः । विपाश्पाठः कुञ्जादिलक्षणेन मायन्येन समावेशार्थः । वैपाशः, वैपाशायन्यः । तक्षन्पाठः कुर्वा दियेन समावेशार्थः । ताक्ष्णः, ताक्षण्यः ||६०॥
तथा
न्या० स० शिवा - प्रवृद्धावोष्ठौ यस्य पौष्ठः, 'वोऽष्ठौतौ' १-२-१७ इति वा लुपि । पौष्ठावस्य स्तः ' अतोऽनेक ' ७-२-६ इतीके पौष्ठिकः ।
जनै 'तुम्बस्तुम्बादय' ३२० ( उणादि ) जम्बः । कुथमियर्ति कर्म्मणोऽणि कुमारः ।
"
[ २७