SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 28 ] बृहवृत्ति-लघुन्याससंवलिते [पा० 1. सू० 61-64 ] कु 'अव्ययस्य कोद् च' 7-3-31 इत्यकि ककु कुत्सितं तिष्ठन्ति विपक्षा अस्मिन स्थादिभ्यः के ककुस्थः / कं वयति क्विपि ग्वृति दीर्धे कहूं याति 'क्वचित् ' 5-1-171 इत्यनेन डे कहूयः / ऋषिवृष्ण्यन्धककुरुभ्यः // 6. 1. 61 // ऋषयो लौकिका वसिष्ठादयः अपत्ययोगात् / वृष्णयः अन्धकाः / कुरवश्व प्रसिद्धा वंशाख्याः क्षत्रियाः / ऋष्यादिवचनेभ्यः शब्देभ्योऽपत्येऽण् प्रत्ययो भवति / इबोऽपवादः / ऋषि, वासिष्ठः, वैश्वामित्रः, गौतमः, वृष्णि वासुदेवः, आनिरुद्धः, वाज्रः, प्रातिवाहनः, औदारः, अन्धक, श्वाफल्कः, रान्ध्रसः, चैत्रकः, कुरु, नाकुलः, साहदेवः, दोःशासनः, दौर्योधनः / अश्यादिभ्यस्तु परत्वात् एयण् ञ्येसो च भवतः। आत्रेयः, जातसेन्यः जातसेनिः, औग्रसेन्यः, औग्रसेनिः, वैष्वक्सेन्यः, वैष्वक्सेनिः, भैमसेन्यः, भैमसे निः / कथं दौर्योधनिः? क्रियाशब्द त्वात् दुःखेन युध्यत इति / योधिष्ठिरिरार्जुनिरित्यत्र तु बाह्वादित्वादिव / 61 / न्या० स० ऋषि-वंशाख्या इति वंशनिमित्ता आख्या अभिधानं येषां ते / इवाफल्क इति 'द्वारादेः' 7-4-6 इति न भवति व्युत्पत्तेरनाश्रयणात्, श्वानं फालयतीति तु वर्णनिर्णयार्थ वाक्यम्-एमण् त्रेभ्यो चेति 'इतोऽनित्रः 6-1-72 ‘सेनान्तकार' 6-1-102 इत्येताभ्याम / कन्यात्रिवेण्याः कनीनत्रिवणं च // 6. 1. 62 // कन्याशब्दात् त्रिवेणीशब्दाच्चापत्येऽण् प्रत्ययो भवति तत्संनियोगे कनीन त्रिवण इत्येतौ च यथासंख्यमादेशौ भवतः / कन्याया अपत्यं कानीनो व्यासः कानीन: कर्णः, त्रिवेण्या अपत्यं त्रैवणः / एयणोऽपवाद: // 62 / / शुङ्गाभ्यां भारद्वाजे // 6. 1. 63 // शुङ्गशब्दात्पुंलिङ्गात् स्त्रीलिङ्गाच्च, भारद्वाजेऽप्रत्येऽण प्रत्ययो भवति / शुङ्गस्य शुङ्गाया वा अपत्यं शौङ्गो भारद्वाज, शौतिः शोङ्गयश्चान्यः / ' नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' इति सिद्धे परत्वात् द्विस्वरादनधाः' (6-1-71) इत्येयण प्राप्नोति तदाधनाथ द्विवचनेन स्त्रीलिङ्गः शुङ्गाशब्द उपादीयते // 63 // न्या० स० शुङ्गा-शुगश्च शुङ्गा च 'पुरुषः स्त्रिया ' 3-1-126 इति पुरुषः शिष्यते / विकर्णच्छगलाद्वात्स्यात्रेये // 6. 1. 64 // विकर्णछगल इत्येताभ्यां यथासंख्यं वात्स्ये आत्रेये चापत्येण् प्रत्ययो भवति / वैकर्णो वात्स्यः, वैकणिरन्यः छागल आत्रेयः, छागसिरन्यः // 64 //
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy