________________
46 ]
श्री सिद्धहेमचन्द्रशब्दानुशासने
स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोश: शिम्बाखड्गपिधानयोः ॥ १ ॥
स्वतो न तु विशेष्यवशात्, अनुतर्षे मद्यपाने वाच्ये सरकशब्दस्त्रिलिङ्गः, सरक:, सरका, सरकं, स्वतस्त्रिलिङ्ग इत्यधिकारः । शले श्वाविद्रोमरिण वाच्ये शललशब्दस्त्रिलिङ्गः, शललः, शलली, शललं । प्रब्दोपले मेघपाषाणे, वाच्ये करकशब्दस्त्रिलिङ्गः, शिम्बायां बीजकोशे खड्गपिधाने प्रत्याकारे च कोशशब्दस्त्रिलिङ्गः ।। १ ।।
जीवः प्राणेषु केदारे वलजः पवने खलः ।
बहुलं वृतनक्षत्र पुराद्याभरणाभिधाः ॥ २ ॥
-
प्राणेषु सुषु वाच्येषु जीवः स्वतस्त्रिलिङ्गः । जीवः, जीवा जीवं प्रारणाः, केदारे वाच्ये वलजस्त्रिलिङ्गः, पवनेधान्यपवनस्थाने खलशब्दस्त्रिलिङ्गः, वृत्तं मात्रादिच्छन्दः, वृत्तादीनामभिधा नामानि बहुलं लक्ष्यानुरोधेन त्रिलिङ्गानि, वृत्ताभिधा श्लोकः पुटः परणव इत्यादि पुंसि । प्रमाणी, समानी, कलिका, गाथा, प्रार्या इत्यादि स्त्रियां पक्त्रं वितानमित्यादि क्लीबे, दण्डकः पुरं नपुंसकः, वसंततिलकं स्त्रीक्लीबे उक्त नक्षत्राभिधा तिष्य: पुनर्वसू इत्यादि पुंसि, अश्विनी इल्वलाः चित्रा इत्यादि स्त्रियां, भं नक्षत्रं इत्यादि नपुंसकम् ।
1
मृगशिरः पुरंनपुंसकः, कस्यचित् पुरस्याभिधा द्रङ्गः द्राङ्गः निगमः इत्यादि पुंसि । पूः अमरावती अलकेत्यादि स्त्रियां, अधिष्ठानं पत्तनं दुर्गं इत्यादि क्लीबम् । आदिशब्दो ग्रामदेशोपलक्षणम्, तेन वरणा ग्रामः गोदौ ग्रामः इत्यादि पुसि । शालुकिनी काची माढिच देश इत्यादि स्त्रियाम् । कोडं ग्रामः कुरुक्षेत्र च देश इत्यादि क्लीबे । आभरणाभिधा, तुलाकोटि:, ताडङ्कः इत्यादि पुसि वालपाश्यापारितयाशब्दो केशाभरणे, मेखला सप्तकी इत्यादि स्त्रियां, केयूराङ्गदे मुकुटं प्रङ्गुलीयकं इत्यादि क्लोबे, नावाप्यादयः पुंनपुंसकाः, हारः पुंनपुंसकः, रशनं स्त्रीक्लीबम् ॥ २ ॥
ग्रामः.
भल्लातक प्रामलको हरीतकबिभीतकौ ।
तारकाढकपिटक - स्फुलिङ्गा विडङ्गतौ ।। ३ ।।
भल्लातकी आमलकी हरीतकी बिभीतक्यादयो वृक्षभेदाः, तारका भम्, प्राढकी मानविशेषः पिटका भाजनविशेष: फोटश्च स्फुलिङ्गा प्रग्निकरणाः, विडङ्गा प्रौषधिविशेषः, अभिज्ञे त्वाश्रयलिङ्गः, तटी रोधः ।। ३ ।।
पट पुटो वटो वाटः कपाटशकटौ कटः ।
पेटो मठः कुण्डनीड - विषारणास्तरणकङ कतौ ॥ ४ ॥