________________
लिङ्गानुशासनम्
[ 47
पटी वस्त्रविशेषः, पुटी पत्रभाजनं, भूर्जाद्यवयवे तु टान्तत्वात् पुस्त्वमेव, वटी न्यग्रोधतरु: रज्जुश्च, वाटी वृत्ति: यवविकारे वरण्डेऽङ्गे च बाहुलकात् पुनपुसकः, वर्त्मनि पुस्त्वमेव, इक्कटीवास्तुनोस्तु स्त्रियां, कपाटी अररिः, जपादित्वाद्वत्वे कवाटी, शकटी अनः, कटी वीरणादिकृतः, पेटी संघात: परिच्छदश्च, स्वार्थे के पेटिका, मठी प्राश्रयविशेषः, कुण्डी भाजनभेद: नीडा कुलायः, विषाणी विषाणा वा गवादिशृङ्ग दन्तिदन्तश्च । तूणी तूणा वा इषुधिः कंकती केशमार्जनम् ।। ४ ।।
मुस्तकुयेङ गुदजृम्भदाडिमाः, पिठरप्रतिसरपात्रकन्दराः । नखरो वल्लूरो दरः पुरश्छत्त्रकुवलमृणालमण्डलाः ॥ ५ ॥
मुस्ता कन्दविशेषः, कुथा वर्णकम्बलः, इङ गुदी वृक्षविशेषः, ज़म्भा जम्भरण, दाडिमा उच्चिलिङ्गतरुः तत्फलं तत्करणश्च, पिठरी स्थालो मुस्तं मन्थानदण्डयोस्तु क्लीबं, प्रतिसरा मङ्गल्यसूत्रं सेनायाः पश्चाद्भागश्च । पात्री भाजनं, योग्ये यज्ञभाण्डे नाट्यानुकर्तरि च क्लीबः, कन्दरी कन्दरा च दरी, अंकुशे तु पुसि। नखरी नखरा वा नखः,. वल्लूरा सोकरं शुष्क वा मांसं, ऊषरे नक्षत्रे वाहने च क्लीबं, दरी श्वभ्र, पुरी नगरी, छत्त्री प्रातपत्रं, कुवली वृक्षविशेष: तत्फलं च, मृणाली बिसं, मण्डली देश: समूहश्च बिम्ब चतुरस्रता च ।। ५ ।।
नालप्रणालपटलार्गलशृङ्खलकन्दलाः । पूलावहेलो कलशकटाहौ षष्टिरेण्विषु ॥ ६ ॥
. ॥ इति स्वतस्त्रिलिङ्गाः ॥ नाली नाला वा पद्मादिवृन्तं, जलनिर्गमे तु बाहुलकात्पु सि, लत्वाभावे नाडः । प्रणाली जलपद्धतिः, पटली गृहोपरिभागः, अक्षिरोगश्च, 'अर्गला त्रिषु कल्लोले, दण्डे चान्त: कपाटयो:।' शृङ्खलः शृङ्खला शृङ्खलमयोमयी रज्जुः, कन्दली उपरागः समूहः नवाङ कुर: द्रुमभेदश्च, पूली पूला वा बद्धतृणसंचयः, अवहेलाऽवज्ञा. कलशी जलाद्याधारविशेषः, दन्त्योपान्त्योऽयमपि, कटाही भाण्डविशेषः, षष्टिः संख्याविशेषः, रेणु— लि:, इषुर्बाण: ।। ६ ।।
॥ इति स्वतस्त्रिलिङ्गावचरिः ।। परलिङगो द्वद्वोऽशी ङऽर्थो वाच्यवदपत्यमितिनियताः ।
अस्त्र्यारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङगे ॥१॥
द्वन्द्वः समासो द्वन्द्वस्यैव यत्परमुत्तरपदं तत्समानलिङ्गो भवति, स च समाहारादन्यो भिन्नलिङ्गवतिपदो वचनं प्रयोजयति, समाहारस्तु नपुसक उक्तः 'समानलिङ्गवतिपदोऽपि सिद्धलिङ्ग एव' । इमौ मयूरीकुक्कुटो, इमे कुक्कुटमयूयौं, इत्यादि,