SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 45 महोदया महोदयं कन्यकुब्जाख्यो देशः, कांस्यी, कांस्यं सौराष्ट्रिका, अर्थप्राधान्यात् सौराष्ट्रिका सौराष्ट्रिकमपि ।। ४ ।। मृगव्यचव्ये च वरिणज्यवीर्यनासोरगात्रापरमन्दिरारिण । तमिस्रशस्त्रे नगरं मसूरत्वक्षीरकादम्बरकाहलानि ॥ ५ ॥ मृगव्या मृगव्यं पापद्धिः, चव्या चव्यं नागवल्लिमूलं, वचायां तु स्त्रात्वमेव । वरिणज्या वणिज्यं वणिक्कर्म, वोर्या वीयं अतिशयशक्तिः। अथ रान्ता: दश-नासीरा नासीरमग्रयानं गात्रा गात्रं गजस्य पूर्वजङ धादिभागः. अपरा अपरं गजस्य पाश्चात्यजङघा, मन्दिरा मन्दिरं गृहं, समुद्रे तु पुस्त्वमेव नगरे तु क्लोब, तमिस्र तमः, तमिस्रा निबिड तमः सामान्यविशेषयोरभेदविवक्षया ऐकार्थ्यम्. कोपे तु क्लीबं, कृष्णपक्षनिशायां तु स्त्री। शस्त्रमायुधविशेषः, नगरी नगर पुरी, मसूरी मसूरं चर्मासन, त्वक्षीरो त्वक्षार वंशलोचना, कादम्बरो कादम्बरं मद्यविशेषः, सामान्य विशेषयोरभेदविवक्षायामित्थं निर्देश , यदाह-'कादंबर मद्यभेदे दधिसारे सीधुनि स्त्रियाम्' । अथ लान्ता अष्ट । काहला काहलं शुषिरो वाद्यभेदः ।। ५ ।। स्थालीकदल्यौ स्थलजालपित्तला, गोलायुगल्यौ बडिशं च छदि च । अलाबु जम्बूडुरुषः सरः सदो रोदोऽचिषी दाम गुरणे त्वयट तयट् ॥ ६ ॥ ॥ इति स्त्रीक्लोबलिङ गाः ।। स्थाली स्थाल भाजनविशेष , कदली कदलं शाकादेर्नवनालं, स्थली अकृत्रिमा चेत् कृत्रिमा तु स्थला, स्थल उन्नतो भूभाग:, जाली जालं आनायः समूहः गवाक्षश्च, पित्तला पित्तलमारकूटम् । गोला गोलं पत्राञ्जने कुनद्या च, गोदावर्या च मण्डले । सखीमणिकयोर्गोला, गोलं लक्ष्यानुसारतः ।। १ ।। युगली युगलं युगम् । अथ शान्तः बडिशा बडिशं मत्स्यबन्धनं, बडिशीत्यपि क्वचित् । अथेदन्त इयं छदिः, इदं छदिः वान्तिः, इयमलाबूः इदमलाबु तुम्बोलता, इयं जम्बूः इदं जम्बु जम्बूवृक्षफलं, अनयोः क्लीबत्वे ह्रस्वता, उडुः उडु नक्षत्र, उषा: उषः सन्ध्या, प्रभाते पुनपुसकं, सर: सरसी तडाग , सदः सदा: सभा, रोदसी द्यावापृथिव्यौ, अचिः अग्निशिखा रश्मिश्च, दाम बन्धन-गुणवाचि अयटनयडन्तं नाम स्त्रीनपुसकं, द्वयी द्वयं, त्रयी त्रयं. चतुष्टयी चतुष्टयं, गणिनि त्वाश्रयलिङ्गतैव । द्वये पदार्थाः द्वयी गतिः, द्वयं वस्तु, त्रयाणि जर्गान्त, चतुष्टये कषायाः, चतुष्टयी शब्दानां प्रवृत्तिः इत्यादि ।। ६ ।। ।। इति स्त्रीक्लीबलिङ्गम् ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy