________________
लिङ्गानुशासनम्
[ 37
भूषणः अलंकारः अर्थप्राधान्यात् मण्डनोऽपि. दूषणः उपालम्भः. भाणः प्रबन्धभेद: किणः त्वग्ग्रन्थिः, रणः संपरायः, प्रवरणः चतुष्पथं, चूर्णः क्षोदः ।। १५ ।।
तोरणपूर्तनिकेतनिवाताः पारतमन्तपुतप्रयुतानि। वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥ १६ ॥
तोरणः वन्दनमाला बहिर्वारि नि! हश्च । पूर्तः खानादिकर्म, निकेतः प्रावासः, निवातः गृहं दुर्भेदं चर्म च, वातरहिते प्रदेशे त्वाश्रयलिङ्गता। पारतं रसेन्द्रः अर्थप्राधान्यात् पारदमपि । अन्तः प्रान्तः समीपं स्वरूपं च, उपलक्षणत्वात् प्रान्तः प्रान्तमपि, पुतं अपानं, प्रयुतं दशलक्षारिण. वेडितः सिंहनादविशेषः अक्षताः अक्षतं, मङ्गलस्य तण्डुलाः, पुसि बहुत्व एवायम् । देवतः देवताः, वृत्तं शीलं निस्तलं च, ऐरावतः सुरेन्द्रदन्ती, लोहितः शोणितं गुणवृत्तिस्त्वाश्रयलिङ्गः हस्तः करः, शतं पञ्च विंशतयः ।। १६ ।।
व्रतोपवीतौ पलितो, वसन्तध्वान्तायुतद्यूतघृतानि पुस्तः । शुद्धान्तबुस्तौ रजतो, मुहूर्तद्वियूथयूथानि वरुथगूथौ ॥ १७ ॥
_व्रतः शास्त्रितो नियमः, उपवीतः कण्ठसूत्रं, पलितं पक्वकेशः, केशपाके कर्दमे च तान्तत्वौनपुसकत्वं, वसन्तः सुरभिः देवपुत्रविशेषश्च, ध्वान्तं तमः, अयुतं दशसहस्राणि, घृतः दुरोदरं, द्युतं प्राज्य, पुस्तं लेख्यपत्रसंघातः, लेपादिकर्म च, शुद्धान्तः अन्तःपुरं पुस्तं पक्वमांसविशेषः, रजतो रूप्यं श्वेतं च, महर्तः घटिकाद्वयं, द्वयोर्य थयो: समाहारो द्वियूथः, यूथः सजातीयपश्वादिसंघातः, वरुथः रथगुप्तिः, गूथः विष्ठा ।। १७ ।।
प्रस्थं तीर्थं प्रोथमलिन्दः ककुदः ककुदाष्टापदकुन्दाः ।
गुददोहदकुमुदच्छदकन्दाऱ्या दसौधमथोत्सेधकबन्धौ ॥१८॥ प्रस्थः माने, तन्मितं वस्तुमात्रं च, तीर्थ पुण्यस्थानं जलावतारश्च, प्रोथः अश्वादे?णान्तरं, अलिन्दः गृहद्धारस्था स्थली, ककुदः कुकुदश्च श्रेष्ठं वृषस्कन्धः राजचिह्न च, अष्टापदं सुवर्ण द्यूत फलकं च अर्थप्राधान्यात् शारिफलकमपि, गिरौ शलभे कपो चाद्रिदेहिनामत्वात् पुस्त्री, कुन्दः पुष्पविशेषः, निधिभेदमुरभिदोस्तु पुस्त्वमुक्तमेव, चक्रभ्रमौ च बाहुलकात् पुसि, गुदं अपानं, दोहदः श्रद्धादौ, हृदयस्य तु बाहुलकानपुसकत्वं, कुमुदः करवम्, छदः दलं पिच्छं च, कन्दः पयोधरः सस्यमूलं च, अर्बुदो दशकोटयः कोटिरित्यन्ये, स्थानविशेषः अक्षिरोगविशेषश्च पर्वतविशेषे तु पुस्त्वमेव, अथ धान्ताः सौधः राजगृहं, उत्सेधः उन्नतिः, कबन्धः शिरोरहितः कायः ।। १८ ।।