SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ 36 ] श्री सिद्धहेमचन्द्रशब्दानुशासने गह्वरं, कुञ्जः गह्वरः गजकुम्भाघो दन्तिदन्तः हनुश्व, भूर्जं च तरुविशेषत्वक्. श्रम्बुजः कमलं चकारोऽनुक्तसमुच्चये. तेन चान्तेषु प्रध्यर्चो नमस्या ।। १२ ।। ध्वजमलयजकूटाः कालकूटारकूटौ, aachपटखेटा: कर्पटः पिष्टलोष्टौ । नटनिकट किरीटाः कर्बटः, कुक्कुटाट्टो, कुटकुटविटानि त्र्यङगट ः कोहकुष्टौ ।। १३ ।। ध्वजः पताकादिः मलयज : श्रीखण्डं, कूटं मायादि, कालकूटं विषं, प्रारकूटो रीतिः, कवट : उच्छिष्ठं, कपट : दम्भः, खेटः फलकं कफश्व, कर्पटः वासः, पिष्ट: अपूपः, लोष्ट : मृच्छकलं, नटः नर्तकविशेषः, निकटः समीपं किरीटः मुकुटं कर्बट: पर्वतावृतग्रामविशेष:, , कुक्कुट ताम्रचूडः, ऋट्टः क्षौमं गेहभेदव, कुटो घटः हलाङ्गविशेषश्च । कुटः वार्ताकीकुसुमं विट: खिङ्गः गोविशेषश्च त्र्यङ्गटः शिक्यभेदः, कोट्टः दुर्गः । अथ ठान्तौ कुष्ठं त्वग्दोषः गन्धद्रव्यविशेषश्च ।। १३ ।। कमठो वारुण्डखण्डखण्डानिगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डत रण्डमण्डमुण्डा, दण्डाण्डौ दृढवारवारणबारणाः ।। १४ ।। कमठः प्रसुरविशेषः भाजनं च कूर्भे तु देहिनामत्वात पुंस्त्वमेव, वारुण्ड: दृक्कर्णमलः गरिणस्थराजश्व, खण्डः शकलमिविकारश्च गुणवृत्तेस्त्वाश्रयलिङ्गता, खण्ड: खण्डी खण्डमिति, षण्ड: वृक्षादिसमूहः, निगडः पादबन्धनं, प्राक्रीड: उद्यानविशेषः, नड: नड्वलजस्तृणविशेषः, प्रकाण्डः स्तम्बः, शस्तं तरोश्च मूलशाखान्तरं, काण्डः शरः समयश्व प्रकरणं, समूहः, जलं, वालं, कुत्सितं वृषस्कन्धः लता च । कोदण्डं चापं, तरण्ढः उडुपः, मण्डः द्रवद्रव्याणामुपरिस्थो भागः भक्तादिनिर्यासः एरण्डः मस्तु च मुण्डं शिरः, दण्ड: यष्टिः, मन्थाः सैन्यं दमनं च । अण्ड: पक्ष्यादिप्रसवः । अथ ढान्तः दृढः स्थूलं बलवांश्च, वारबाणं चर्म, बारणः शरः पुष्पविशेषश्च ।। १४ ।। कर्षापरणः श्रवणपश्वरणकङ करणानि, द्रोणापराचरणानि तृणं सुवर्णम् । स्वर्णव्रणौ वृषणभूषरणदूषणानि, भारणस्तथा किरणरण प्रवरणानि चूर्णः ।। १५ ।। कर्षापरण : मानविशेषः परणषोडषकं च, प्रज्ञाद्यरिण कार्षापणोऽपि श्रवणः कर्णः, पक्वरणः शबरालयः, कङ्कणः हस्तरक्षासूत्रं द्रोणः परिमाणविशेषः अपराह्नः दिवसापरभागश्च चरणं गोत्रादि, तृणः उपलादिः, सुवर्णः स्वर्ण: हेमं, व्ररणः ऊरुः, वृषरणः मुष्कः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy