SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 30 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने स्त्री, औपगवं कुलमित्यादि। लाजशब्द: वस्त्रसंबन्धिदशावाची, च दशशब्दः स्त्रीपुसौ तौ च बहुत्व एव प्रयोक्तव्यौ, अघाप्रत्ययभेदेनेहाद्या: शब्दा: स्त्रीपूसलिङ्गा:, ईहः ईहा, वाञ्छा उद्यमश्चेष्टा च, ऊहः ऊहा तर्कः, स्पर्धः स्पर्धाः संघर्षः इत्यादि ।। ५ ।। शुण्डिकचमप्रसेवको, सल्लकमल्लकवृश्चिका अपि । शल्यकघुटिको पिपीलि-कश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः ।। ६ ॥ अथ कान्ता: १२ शुण्डिकः शुण्डिका सुरापणः, चर्मप्रसेवक: चर्मप्रसेवका दृतिः, सल्लकः, सल्लकी, गजप्रियतरुः निर्यासविशेषश्चेत्यरुणः, मल्लक: मल्लिका दीपवाधारः, वृश्चिक: वृश्चिकी सविष: कोट:, शल्यक: शल्यकी श्वावित्, धुटिक: घुटिका गुल्फः, अर्थप्राधान्यात धूण्टिक: पण्टिका. घटघुटी, गूल्फः गुल्फा इत्यादि । पिपीलक: पिपीलिका वल्मीककृमिः, चुलुक: चलुका पास्यपूरणं वारि, हुडुक्कः हुडुक्कातोद्यं, तुरुष्क: तुरुष्का सिहकः, तिन्दुकः तिन्दुकी वृक्षविशेषः ।। ६ ।। शृङ गोऽथ लञ्चभुजशाटसटाः सृपाटः, कोटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशारणाः, स्युरिपर्णफलगर्तरथाजमोदाः ॥ ७ ॥ शुङ गः शुङ गा कन्दलः । अथ चान्तः लञ्च: लञ्चा उपचारः, 'भुजः भुजा बाहुः, शाटः शाटी परिधानं, सट: सटा सिहस्कन्धकेशाः, सृपाटः सृपाटी परिमारणविशेषः, किट: किटो वंशादिपुत्तलिका, स्फटः स्फटा फणः, घटः घटी कलशः, वरटः वरटा क्षुद्रजन्तुविशेषः, किलाट: किलाटी क्षोरविकारः, किलाटिकेत्यमरटीका, चोट: चोटी शाटिका, चपेटः चपेटा विस्तृताङ गुलिपाणितलं, फट: फटा फरणः, शुण्डः शुण्डा सुरा, गुडः गुडा हस्तिसन्नाहः, शाणः शाणा निकषः, वारिपर्णः वारिपर्णी फङ गानामशाकं, फरणः फरणा फटा, गर्तः गर्ता श्वभ्र. रथः रथी स्यन्दनः, अजमोदः, अजमोदा ब्रह्मकुशा ।। ७ ।। विधकूपकलम्बजित्यवर्धाः, सहचर-मुद्गरनालिकेरहाराः । बहुकरकृसरौ कुठारशारौ, वल्लरशफरमसूरकोलरालाः ॥८॥ विधः विधा प्रकारः, कूपः कूपी अन्धुः, कलम्बः कलम्बी शाकविशेषः, जित्यः जित्या हलिः । अथ रान्ता:-वध : वर्षी चर्मरज्जुः, सहचर: सहचरी लता समूहविशेषश्च, मुद्गर. मुद्गरी लोष्ठादिभेदनोपकरण, नालिकेरः नालिकेरी तरुविशेषः फले तु तन्नामत्वात् क्लीबत्वं, हारः हारा मुक्तादाम, बहुकरः बहुकरी समाजिनी, कृसरः कृसरो तिलौदनः, कुठारः कुठारी पशु:, शारः शारी पायानयीनः, वराटश्चेति हर्षः । वल्लरः वल्लरी मञ्जरो अर्थप्राधान्यान्मञ्जरः मञ्जरीत्यपि, शफर शफरी मत्स्यविशेषः, मसूरः
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy