________________
लिङ्गानुशासनम्
[ 29
नाभिः प्राण्यङ्ग के प्रधिर्नेमौ क्वचन बलिहे कुटः ।
श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ॥ २ ॥
प्राण्यङ्ग वाच्ये नाभिशब्दः स्त्रीपुसलिङ्गः, अयं नाभिरियं नाभिः प्राण्यङगविशेषः, नेमौ चक्रधारायां वाच्यायां प्रधिः, अयमियं वा प्रधिः क्वचनार्थविशेष बलिशब्दः स्त्रीपुसलिङ्गः, बवयोरक्येन निर्देशः, अयमियं वा बलिः उपहार: त्वग् मांससंकोचश्च जठरावयवश्च, गृहे वाच्ये कुट शब्द:, कुट: कुटी, घटे हलाङ्ग च पुक्लीबः, श्रोणावौषधि विशेषे च कट: पुस्त्रीलिङ्गः, कट: कटी श्रोणि:, कट: कटा औषधिः, मोहे अज्ञान विशेष च भ्रमः पुस्त्री, भ्रमः भ्रमी अज्ञानविशेषे संदेहे भ्रमणे च, वन्दे सक्त्वादीनां गोले च वाच्ये पिण्डः पुंस्त्री, पिण्ड: पिण्डो वृन्दं गोलकश्च ।। २ ।।
भकनीनिकयोस्तारोभेऽश्लेषहस्तश्रवणाः ।
करणः स्फुलिङगे लेशे च, वराटो रज्जुशस्त्रयोः ॥ ३ ॥ भे नक्षत्रे कनीनिकायां तारकायां च तारशब्दः स्त्रीपुसलिङ्गः, तारस्तारा नक्षत्रं कनीनिका च, भे नक्षत्रविशेषे अश्लेषहस्तश्रवणा: स्त्रीपुसलिङ्गाः अश्लेषः अश्लेषा, हस्तो हस्ता, श्रवणः श्रवणा नक्षत्रारिग । स्फुलिङ्ग लेशे च वाच्ये करणः स्त्रीपुसलिङ्गः, करणः करणाः स्फुलिङ्गो लेशश्च वराटः वराटा रज्जुशस्त्रविशेषौ, अन्यत्र तु कपर्दे श्वेतनामत्वात् पुंस्त्वमेव ।। ३ ।।
कुम्भः कलशे तरणिः समुद्राांशुयष्टिषु ।
भागधेयो राजदेये मेरुजम्ब्वां सुदर्शनः ॥ ४ ॥ कलशे वाच्ये कुम्भः पुस्त्री, कुम्भः कुम्भी कलशः. अन्यत्र तु यथाप्राप्तं, गुग्गुलौ बाहुलकानपुंसकत्वम् । अयमियं वा तरणि: समुद्रः, अर्कः, अंशुः पतितगोरूपोत्थापनी यष्टिश्च, अन्यत्र तु लिन्मिन्यनिण्यणिस्त्र्युक्ताः इति स्त्रीत्वमेव । भागधेयो भागधेयी राजदेयः करः, मेरुजम्ब्वां सुदर्शनशब्द: स्त्रीपुसलिङ्ग। सुदर्शन: सुदर्शना मेरुजम्बूः, अन्यत्र तु विष्णुचक्रे शक्रपुरे च प्रतिपदपाठात् पुस्त्वमेव ।। ४ ।।।
करेण र्गजहस्तिन्योरल्याख्यापत्यतद्धितः ।
लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥ ५ ॥ गजे हस्तिन्यां च वाच्ये करेग: स्त्रीपुसलिङ्गः, अयमियं वा करेगुः गजः हस्तिनी च, अलेधं मरस्याख्या पुस्त्री, अयमलिः, इयमलिः, एवमली अलिनी, भृङ्गः भृङ्गी इत्यादि । देहिनामत्वात् पुस्त्वे प्राप्ते योनिमन्नामत्वा भावाच्च स्त्रीपु सार्थं वचनम्, अपत्येऽर्थे जातस्तद्धितस्तदन्तं नाम पुस्त्रीलिङ गं, अयमोपगवः इयमौपगवी, एवं बैदः, बैदी, गार्यः, गार्गी इत्याद्यपि । आश्रयलिङ्गत्वमपीति कश्चित्, प्रोपगवः ना, औपगवी