________________
28 ]
श्रीसिद्धहेमचन्द्रशब्दानुश सने
गव्यादिक्षीरविकारश्च । अथ सान्ता: साध्वसं भयं, महानसं पाकस्थानं. साहसं दुष्करकर्मवैयात्यमविमृश्यकारिता दमश्च, कासीसं धातुविशेष:--अर्थप्राधान्यात् धातुकासीसं घातुशेखरपि। मत्सं सन्धिस्थानं, तरसं मांसं, अर्थप्राधान्यात् उत्तप्तं शुष्कमांस, यवसमश्वादिघासः, बिसं पद्मकन्दः ।। २३ ॥ मन्दाक्षवीक्षमथ सक्थि शयातु यातु,
स्वाद्वाशु तुम्बरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत्
पर्वाणि रोम च भसच्च जगल्ललाम ।। २४ ॥
॥ इति नपुसकलिङग समाप्तम् ॥ मन्दाक्षं लज्जा शूका च, वीक्षं विस्मयः दृश्यं च, सक्थि ऊरु: 'इत्तु प्राण्यङ्ग' (स्त्रीलिङ्ग-श्लोक ४) इति स्त्रीत्वप्राप्तौ वचनं । अथोदन्ता: शयातु अजगरः, यातु राक्षस:, स्वादः पयः, ग्राश शीघ्र, तम्बरु अौषधिविशेषः, उकारान्तत्वार पूस्त्वे प्राप्ते वचनं, कसेरु कन्दविशेषः, पृष्ठास्थि च अर्थप्राधान्यात् गाङ्ग यमपि । शलालु गन्धद्रव्यं, अालु कन्दविशेषः । अथ व्यञ्जनान्ता: संयत् संग्रामः, ककुत् वृषस्कन्धः, महत् राज्य बुद्धितत्त्वं च अयं पुस्यपि, महान् प्रकृतिः, अहदिनं, पृषत् बिन्दुः, पुरोतत् अन्त्रं, पर्व दर्शप्रतिपदोः सन्धिः, ग्रन्थिप्रस्तावयोरपि, पर्व क्लोबमाहवे च विषुवत् प्रभृतिष्वपि, रोम तनूरुहं, रोमणी इति द्विवचनं, मन्नन्तत्वेनैव सिद्ध कथं वचनं पुस्यपि कश्चित् । भसदास्यं जघनमामाश्रयस्थानं, दकारान्तोऽयं जगत्, विश्व । ललाम ध्वजादी रम्ये च, . ललामस्य तु पुन्नपुंसकत्वम् ।। २४ ।।
इति नपुंसकलिङ्गम् । पुंस्त्रीलिङगं चतुर्दशके, शङ कुनिरये च दुर्गतिः ।
दोमूले कक्ष आकरे गजो भूरुहि बाररापिष्पलौ ॥१॥ चतुर्दशके स्थाने वर्तमानः शङ कुशब्दः स्त्रीपुसलिङ्गः, अयमियं वा शङ कुः ।
एक दशं शतं तस्मात् सहस्रमयुतं ततः परं लक्षम् । प्रयुतं कोटिमथार्बुदमजं खर्व निखर्व च ॥१॥ तस्मान्महासरोज शङ्कुसरितां पति ततस्त्वन्त्यम् ।
मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः ॥ २ ॥ निरये वाच्ये दुर्गतिशब्द: स्त्रीपुसलिङ्गः, अयमियं वा दुर्गतिः, भुजमूलेऽभिवेये कक्षशब्दः स्त्रीपुसलिङ्गः, कक्षः कक्षा दोर्मूलं, प्राकरे वाच्ये गाः स्त्रीपुसलिङ्गः, गक्षः गला आकरः, भाण्डागारे तु पुनपुसकत्वमसुरालये तु स्त्रीत्वं प्रतिपदपाठेनोक्त, भूरुहि वृक्षे वाच्ये बाणपिष्पलशब्दो स्त्रीपुसको, बाणः बाणा झिण्टी, पिष्पलः पिष्पली अश्वत्थः, वस्त्रच्छेदनोपकरणे प्रतिपदपाठात् पुनपुसकत्वं, जले तु तन्नामत्वान्नपुसकत्वम् ।। १ ।।