________________
18
|
श्रीसिद्धहेमचन्द्रशब्दानुशासने
रुचिः सूचिसाची खनिः खानिखारी , खलिः कोलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिदिनान्दी ,
किकिः कुक्कुटिः काकलिः शुक्तिपङक्ती ॥ २६ ॥ रुचिः कान्तिः, सूचिः सेवनी साचिः तिर्यग्, खनिराकरः, खानिः स एव, खारिर्मानविशेषः, खलिः पिण्याकादिः, कीलिः कीलिका, तूलिः चित्रकूचिका, क्लमिः क्लमः, वापिः कूपः, धूलिः पांशुः, कृषिः कर्षणं, उपलक्षणं चेदं किप्रत्ययान्तानाम्, तेन छिदि-भिदित्विष्यादयोऽपि सिद्धाः, स्थालिरुखा, हिण्डिः रात्रौ रक्षाचारः, त्रुटि: संशयेऽल्पेऽपि, वेदियज्ञोपकरणी भूः, नान्दिः पूर्वरङ गाङ्ग, ककिः पक्षविशेषः, कुक्कुटिः कुहनी काकलिर्ध्वनिविशेषः, शुक्तिः कपालशकले, पङक्तिर्दशसंख्या ।। २६ ।। किखिस्ताडिकम्बी द्युतिः शारिराति
स्तटिः कोटिविष्टी वटिगृष्टिवीथी। दरिवल्लरिर्मञ्जरिः पुञ्जिभेरी
शरारिस्तुरिः पिण्डि माढी मुषुण्डिः ॥ २७ ॥ किखि: कालस्य गोत्रविशेषः, ताडिराभरणविशेषः, कम्बिदविः द्युतिः कान्तिः, शारिरक्षोपकरणं, आतिः शरारिः, तटिः नद्यादौ जलास्फोटनस्थानं, कोटिरग्रं, विष्टिर्भद्रा, वटिगुलिका, गृष्टिनिविशेषः, वीथिः पङ क्त्यादिषु। दरिः कन्दरा, वल्लरिमायौं एकार्थे, पुखिः संहतिः, भेरिः वाद्यं, शरारिराटिः, तुरिस्तन्तुवायोपकरणं, पिण्डिनिष्पीडितस्नेहपिण्डः, माढि: पत्रस्नसा, मुषुण्ढिरायुधविशेषः ।। २७ ।।।
राटिराटिरटविः परिपाटिः, फालिगालिजनिकाकिनिकानि । चारिहानिवलभि प्रधिकम्पी, चुल्लिचुण्डितरयोंऽहतिशारणी ॥ २८ ॥
राटि: कलहः, प्राटिः शरारिः, अटविः अरण्यं, परिपाटि: क्रमः, फालिदलं, गालिरवद्योद्भावनं, जनिर्जन्म, काकिनिर्माषचतुर्भागः, कानिः संकोच:, चारिः पशुभक्ष्यं, हानिर्रर्थनाशः, वलभि: पटलाधारो वंशपचारः, इदन्तत्वात् ङ्यां वलभी, अर्थप्राधान्यात् गोपानसी, प्रधिः रोगविशेषः, कम्पिः कम्पनं चुल्लिरुद्धानं, त्रुण्डिः क्षुद्रवापी, तरिः नौः अर्थप्राधान्यात् द्रोण्यपि, अंहतिर्दानं, शारिणः शाणः ।। २८ ।।
सनिः सानिमेनी मरिर्मारिरथ्योषधी विद्रधिर्भल्लरिः पारिरभ्रिः । शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, कुमार्याढकी स्वेदनी हादिनीली ॥२६॥