________________
लिङ्गानुशासनम् .
[ 17
उपलाऽश्मरूपा मृत् शर्करा च, अत्र चोपलक्षणत्वात् माधवी मधुनः शर्करा । अथ वान्ताः पञ्च शारिवा औषध-विशेषः शालिविशेषः, मूर्वा ज्याहेतूस्तणविशेषः, अर्थप्राधान्यान्मोरटास्रवेऽपि, कटंभरापि च, लट्वा कुसुम्भं भ्रमरश्च खट्वा शयनं, शिवा क्रोष्ट्रो, दशावस्था वर्तिश्च, कशाऽश्वताडनं चर्मदण्डः, अर्थप्राधान्यात्सप्तलापि कुशी बला ङ्यां कुशा प्रायसो चेत्, ईशा हलदण्डः, मञ्जूषा पेटा अर्थप्राधान्यात् पेटीपेटेऽपि, शेषा देवनिर्माल्यं मूषा स्वर्णविलयनभाण्ड, ईषा हलाद्यवयवः, स्नसा स्नायुः ।। २३ ।।
वस्नसा विरसा भिस्सा, नासा बाहा गुहा स्वाहा । कक्षाऽऽमिक्षारिक्षा राक्षा, भङ ग्यावल्यायतिस्त्रोटिः ॥ २४ ।।
वस्नसा स्नायुः, विस्रसा जरा, भिस्सा प्रोदनः, नासा स्तम्भादीनामुपरि दारु, बाहा बाहुः, गुहा गिरिविवरं, स्वाहाग्निभार्या, कक्षा उद्ग्राहणिका स्पर्धा पदं कटाटिका च, प्रामिक्षा शृतक्षीरक्षिप्तदधि, रिक्षा यूकाण्डं, लत्वे लिक्षा, राक्षा जतु, लत्वे लाक्षा अर्थप्राधान्यात् वरवणिनी रजनी पलंकषा च। अथ चेदन्ताः,-भङ्गिविच्छित्तिः, प्रावलिः पंक्तिः, आयतिरुत्तरकालः प्रभावः दैर्घ्यं च, त्रोटिमस्यभेदे बन्द्यां च ।। २४ ।।
पेशिर्वासिर्वसतिविपरणी-नाभिनाल्यालिपालि
भल्लिः पल्लि कुटिशकटी चर्चरिः शाटिभाटी। खाटिर्वतिव्रततिवमिशुण्ठीतिरीतिविदि
दवि विच्छबिलिबिशढिश्रेढि - जात्याजिराजि ॥ २५ ॥ पेशिर्मासपिण्डी खङ गपिधानं च, वासिस्तक्षोपकरणं, अर्थप्राधान्यात्तक्षण्यपि । वसतिर्वेश्म, विपरिणः पण्यमापणः पण्यवीथी च, अस्यां च पुस्यपीति कश्चित्, नाभिश्चक्रादिनाभिः । नालि: कालमान कन्दलं च, लत्वाभावे नाडि लम् शिरा च, शिरायां चार्थप्राधान्याल लनापि, पालिरनर्थः सेतुश्च, पालिः कर्णलताग्रं अनिरुत्सङ गप्रान्तश्च, । पाल्यन्तत्वादङ्ककपाल्यपि । भल्लिर्बाणभेदः । पल्लिः कुटी ह्रस्वग्रामश्च, भ्रकुटिभ्र भङ्गः उपलक्षरणत्वात् भ्र कुटि: भ्र कुटी अपि, शकटिः शकटं चर्चरिः हर्षक्रीडा, शाटि: प्रावरणनिशेषः, भाटि: सुरतमूल्यं, खाटि: किरणः, वत्तिर्दीपस्तद्दशा च, व्रततिविस्तारः, वमिर्वान्तिः शुण्ठिनागरं, ईतिरुपद्रवः-अर्थप्राधान्यात् शृगाल्यपि ।
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।
अत्यासन्नाश्च राजानो षडेता ईतयः स्मृताः॥ रोतिरारकूट,-अर्थप्राधान्यादरीरी अपि, विदिर्वेदिका, दविरुहस्तः, नीविर्मूलधनं छवि: क्रान्ति: शोभा, लिबिलिपिः अर्थप्राधान्याल्लिपिरपि। शढिरौषधविशेषः, श्रेढिर्गणितव्यवहारविशेषः, जातिर्मालती, आजिः संग्रामः, पुस्यपीति कश्चित्, राजि: पङि क्तः, के राजिका केदारः ।। २५ ।।