SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् [ 7 विष्णोरनुजश्च, अगद औषधम्, मकरन्दः पुष्परसः, अर्थप्राधान्यान्मरन्द इति, जनपदो जनसमूहो विषय: करदश्च कुटुम्बी, अगदजनपदयोभैषजनामपदान्तत्वाभ्यां नपुंसकत्वे प्राप्ते पाठः। .. अथ धान्ता: 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः स्कन्धः 'प्रकान्डेंऽशे नृपे स्कन्धः काये व्यूहसमूहयोः' । अगाधः विरलम्, बिलनामत्वादेव क्लीबत्वे प्राप्तेऽस्य पाठः ।। विरं छन्दः ।। १० ।। . अर्धसुदर्शनदेवनमह्नाभिजनजनाः परिघातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥ ११ ॥ अर्धः खण्डम्, ग्रामाधः, अधः पटी, अर्धः नगरम्, समांशे तु क्लीबत्वस्य वक्ष्यमारणतया विषमांशवृत्तिरिहाधशब्दः । अथ नान्ताः सप्त, सुदर्शनः विष्णुचक्रं शऋपुरं च, मेरुजम्ब्वां स्त्री पुसलिंग:, देवनः अक्षः, क्रोडाविहारविजिगीषासु नान्तत्वान्नपुसकत्वमेव । अह्न इति 'संख्यात' [७.३.११६] इति 'सर्वांश' [७.३.११८] इति च कृतसमासान्तोऽहन् शब्दः, संख्याताह्नः, सर्वमहः सर्वालः, पूर्वमह्नः, पूर्वाल्लः, एवं सायाह्नः, प्रारम्भो मध्ये चाह्नः प्राण: मध्याह्नः, अपराह्णस्तु पुक्लोब:, परवल्लिङगतापवादोऽह्नस्य पाठः, अभिजनः कुले ख्याताव भिजनो जन्मभूम्यां कुलध्वजौ। जनः लोकः, परिघातनः अयोबद्धो लगुडः, फेनः डिण्डोरः, अर्थप्राधान्यादब्धिकफ इत्यपि । अथ पान्ताश्चत्वारः पूपोऽपूपश्च गुणभेदः मूप: मुद्गादिविकारः सूपकारे देहिनामत्वादेव सिद्धम्, अर्थप्राधान्यात् सूद इत्यपि, पूपादीनां नपुंसकत्वे प्राप्तेऽस्य पाठः, 'कलापःसंहतौ बर्हे काञ्च्यां भूषणतूणयोः', पिच्छनामत्वान्नपुसकत्वेऽस्य पाठः । अथ फान्तो। रेफोऽवद्यम्, वर्णविशे तु विषयनामत्वेनैव पुस्त्वम्, शोफः श्वययुः । अथ बान्ताः स्तम्बः पालानं व्रीह्यादीनां प्रकाण्डविशेषश्च, तत्र चार्थप्राधान्याद् गुच्छोऽपि, नितम्बः स्त्रियाः पश्चात् कटौ, सानो नितम्ब: कटरोधसोः' ।। ११ ।। शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मन्त्रामित्रो कटप्रपुण्ड्राराः कल्लोलोल्लौ च खल्लतल्लौ ॥ १२ ॥ शम्ब: मुसलाग्रस्थो लोहमण्डलकः, अशनौ तु तन्नामत्वादेव पुस्त्वं, अम्बः सरकादीनाम् . अथ यान्ताः। पाञ्चजन्यो विष्णोः शङ्क: पोटगलश्च, तिष्यः पूष्यश्च कलियुगं, नक्षत्रे बहुलं नक्षत्रेत्यनेन मासविशेषे तु मासनामत्वादेव पुस्त्वम्, सिचयो वस्त्रम्, अंशुकनामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः । निकाय्यो निवास: । अथ रान्ताः रात्र इति कृत समासान्तः 'संख्यातैक' [७.३.११६] इति 'ऋक्साम' [७.३.६७] इति च रात्रि शब्दः । पुण्यारात्रिः पुण्यरात्रः, वर्षा रात्रः, दीर्धरात्रः, चिररात्रः, पूर्वरात्रः, अपररात्रः, अर्धरात्रः, अहोरात्राविमौ, एकात् समाहारे च पुक्लीब:,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy