________________
6 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
धूल्यादिः, पूगः क्रमुकः संघोऽपि, अयं क्लीबोऽपि इति कश्चित् । सृगो भिन्दिपालाख्यः शस्त्रविशेषोऽर्थप्राधान्याद् भिन्दि (द) पालोऽपि । मस्तुलुङ गो मस्तिष्क: कुडङ गो वृक्षगहनम्, कालिङग: कालिङि गनी तत्फलं च, चिर्भट्यां वल्लिनामत्वादेव स्त्रीत्वम्, वल्लिनामत्वेन स्त्रीत्वे फलनामत्वेन क्लीबत्वे प्राप्ते वचनम् । तमङ गइन्द्रकोश:, मङगो धर्मो नौः शिरश्च ।।७।।
वेगसमुद्गावपाङ्गवगौघार्घा मञ्चसपुच्छपिच्छगच्छाः ।
वाजौजकिलिञ्जपुञ्जमुजा अवटः पट्टहठप्रकोष्ठकोष्ठाः ॥ ८ ॥
वेगो रयः किंपाकफलं प्रवाहो मूत्रादिप्रवृत्तिश्च, समुद्गः संपुटः, अपाङ्गो नेत्रान्तस्तिलकश्च, वर्गः संघातः, अोघः समूहादिः, अर्को मूल्यं पूजाविशेषश्च, वेग-वर्ग-रङ गौघार्धाणामौरणादिकगान्तानां समुद्गस्य च डान्तस्य ग्रहणम्, घनन्तत्वे तु सिद्धमेव । मञ्चो राजासनम्, पुच्छः पश्चाद्भागः, लाङ गूले तु पुनपुसकः, पिच्छं, लाङ गूलम्, गच्छोऽभिमतसंख्यावसानम्, वाजः पिच्छम्, प्रोजो विषमसंख्या, किलिजः कटः, मुजः शरेषोका, अवटो रन्ध्र, पट: पेषणपाषाणः पीठं च, ललाटभूषायां बाहलकत्वात् स्त्रीत्वे पट्टो हठः बलात्कारः वारिपर्णी च, प्रकोष्ठः कूर्परादधः, कोष्ठः कुक्षिगृहयोरन्तरालं आत्मीयश्च ।। ८ ।।
अङ गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः ।
वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुरणभ्र रणमलक्तकुन्तौ ।। ६ ॥ अङ गुष्ठोऽङ गुलिविशेषः, अथ डान्ता दश, गण्ड: पिटकः, लगुडो लोहमयं शस्त्रं, प्रगण्ड: कूर्परांसयोर्मध्यम्, करण्डा भाण्डविशेषः, कुष्माण्ड: कर्कारुः भ्र गाश्च, गुडो गोलकः, शिखण्डश्चूडा, वरण्डोऽन्तरावेदौ रुण्डः, कबन्धः, रुण्डान्तत्वाद् वारुण्ड: सेकपात्रम्, पिचण्ड उदरम् णान्तास्त्रयः, नाडोव्रणो रोगविशेषः, वरणस्य पुनपुसकत्वेन तत्पुरुषेण परवल्लिङ गताप्राप्तौ वचनन, गणः पट: । भ्रगणो गभिणी स्त्री शिशुश्च, गुणस्यांशुकनामत्वेन नपुसकत्वे भ्र रणस्य तु योनिमन्नामत्वेन स्त्रीत्वे प्राप्ते पाठः, अथ तान्ताः सप्त, अलक्तो यावकः, कुन्त: प्रासः, अर्थप्राधान्यात् शलपराचदीर्घायुधा अपि ।। ६ ।।
पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपदौ । बुबुदगदमगदो मकरन्दो जनपदगन्धस्कन्धमगाधाः ॥ १० ॥
पोतः प्रवहणं शिशुश्च, पिष्टात पटवासकः, पृषता बिन्दवः, प्रायेण बहुवचनान्तोऽयम्, मृगवाचिनस्तु देहिनामत्वादेव पुंस्त्वम्, उत्पातः उपसर्गः, व्रातः समूहः । अथ थान्तः–'अर्थः प्रकारे विषये, चित्तकारणवस्तुषु, अभिधेयेऽपि शब्दानाम् । धननामत्वेन क्लीबत्वे प्राप्तेऽस्य पाठः। अथ दान्ताः षट् कपर्दो हरजटाबन्धः, वराटवाचिनस्तु तन्नामत्वादेव सिद्धं पुस्त्वम्, बुबुदः जलादिसंस्थानविशेषः, गदो व्याधिः