SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् . [ 3 पुक्लबः नखरस्तु त्रिलिङ्ग, दन्तनाम दन्तः, दशनः, अयं रुद्रटेन क्लीबेऽपि निबद्धः 'दशनानि च कुन्दकलिकाः स्युः' इति तच्चिन्त्यम् द्विजः, रदः रदनः इत्यादि । कपोलनाम कपोल:. गण्डः, गल्लः इत्यादि। गुल्फनाम गुल्फः, गुटुः, प्रपदः, प्राप्रपदः, खुरकः, निस्तोदः पादशीर्षः इत्यादि । हस्तिगुल्फस्तु प्रौहः घुटिकघुण्टिघुण्टगुल्फास्तु स्त्रीपुंसलिङ्गा वक्ष्यन्ते । केशनाम केशः, शिरोजः, शिरोरुहः, चिकुरः, चिहुरः, कच: अयं बाहुलकाद् वरणेऽपि पुसि, गुरोः पुत्र तु देहिनामत्वात् सिद्धम् । इभ्यां तु योनिमत्त्वात्स्त्रीत्वम् । अस्रः, वेल्लितानः इत्यादि । वृजिनश्च यद्गौडः 'वृजिनं कल्मषे क्लीबं, केशे ना कुटिले त्रिषु ।' कुन्तलश्च-'कुन्तला: स्युर्जनपदो, हलो वालश्च कुन्तलः ।' हले बाहुलकात् पुसि। वाल: पुनपुसको वक्ष्यते, तद्विशेषोऽपि केशः । कुरलः, अलकः। अन्धुः कूपस्तन्नाम, अन्धुः, ह्रहिः प्रहिः इत्यादि। कूपस्तु स्त्रीपुसलिङ्गः । गुच्छनाम गुच्छः गुत्सः, गुलुच्छः, स्तबकस्तु पुक्लीबः । दिननाम घस्रः, सूर्याङ्कः, दण्डयामः दिनदिवसवासराणां पुनपुंसकत्वम् । दिवाह्नोस्तु नपुंसकत्वम् । स इति समासस्याख्या पूर्वाचार्याणाम् तन्नाम बहुव्रीहिः, अव्ययीभावः, द्वन्द्वः इत्यादि । ऋतुनाम हेमन्तः, वसन्तशिशिरनिदाघाः पुनपुंसका:, शरत्प्रावृड्वर्षाश्च स्त्रीलिङ्गाः । ऋतुस्तु उदन्तत्वात् पुसि, पतद्ग्रह आचेलकाधारस्तन्नाम प्रतिग्रहः, प्रतिग्राहः इत्यादि । निर्यासनाम वृक्षादीनां रसः, गुग्गुलः, श्रीपृष्टः, श्रीवेष्टः, सर्जरसः, उषः, उलूखलं नपुंसकम् । निर्यासस्तु पुनपुंसकः, कुम्भकुन्दोलूषले तु हलकानप सके। नाकनाम स्वर्गः, स्वः अव्ययम नाकत्रिदिवौ पूनसकौ. दिवं त्रिविष्टबं क्लीबे, द्योदिवौ स्त्री। रसाः शृगारादयस्तन्नाम शृङ्गार-हास्य-करुण-चौद्रवीर-भयानक-शान्त-वीभत्साद्भुता इति । वत्सलस्तु पुत्रादिस्नेहात्मा रतिभेद एव, शृङ्गारः पुक्लीबः, गौस्तु शृंगारवीरौ बीभत्सं, रौद्रं हास्यं भयानकम् । करुणा चाद्भुतं शान्तं, वात्सल्यं च रसा दश ॥१॥ इति । कण्ठनाम गलः, नालः । कुठारनाम, परशुः, पशु:, स्वधितिः इत्यादि । कुठारः पुस्त्री, कोष्टनाम, कुशूलः इत्यादि। हैमनाम हैमो भेषजभेदः किराततिक्तः किरातकसंज्ञः । अरिनाम, द्विषन्. प्रत्यर्थी, रिपुः इत्यादि । वर्षनाम वत्सः, संवत्सरः संवदित्ययमव्ययमपीति कश्चित् । वर्षहायनाब्दास्तु पुक्लीबाः, शरत्समे तु स्त्रीलिङ्ग । विषनाम, गरः, ब्रह्मसुतः, क्ष्वेडः, वत्सनाभः इत्यादि। विष-कालकूट-गरल-हालाहल-काकोला: पुनपुसका:, मधुरस्य बाहुलकात् क्लीबत्वम् । बोल औषधविशेषस्तन्नाम, गन्धरस: प्राण: इत्यादि। रथनाम, पताकी, स्यन्दनः, पुनपुसकोऽयमिति गोडशेषः, रथः पुस्त्री। अशनिनाम पविः इत्यादि । अशनिः पुंस्त्री, वज्रकुलिशो पुक्लीबो, भिदुरं बाहुलकात् क्लीबम् ॥२॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy