________________
4
]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क, मन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोरणमास, धान्याध्वराग्निमरुतां सभिदां तु नाम ॥ ३ ॥
श्वेतनाम, श्वेतः, कपर्दः। प्लवनाम, कोलः, भेलः, उडुपस्तु पुक्लीबः । अात्मनाम, जीवः, पुङ्गलः, क्षेत्रजः, प्रधाने त्वाश्रयलिङ्गता पुरुषः इत्यादि। मुरजो मर्दलस्तन्नाम मृदङ्गः, मुरजभेदोऽपि मुरजः । असिनाम निस्त्रिशः, खड्गः, ऋष्टेस्तु पुंस्त्रीत्वम् । कफः श्लेष्मा खेटस्तु पुक्लीबः। अभ्र मेघः, अभ्रस्तु पुक्लीबः । पङ्को निषद्वरः, पङ्कजम्बालो पुक्लीबो। मन्थः, मन्थानः। विटकान्तिः अंशुः, अयं रवावपि, अभीषुः मर्धन्योपान्त्योऽयम । यखः । अयं शोभाज्वालयोरपि बाहलकात प्रसि रुचित्विटद्यतिदीघतयः स्त्रीलिङ्गाः, रोचि: शोचिषी तु द्विस्वरसन्तत्वात् क्लीबे, गोमरीचिप्रश्नयस्तु . पुंस्त्रीलिङ्गाः, रश्मिः, अयं रज्जो स्त्रियाम् । जलधिः, अर्णवः, समुद्रः, महाकच्छः । पश्चिमाशापतौ तु देहिनामत्वात् पुसि तत्प्रभेदनाम क्षीरोदः, लवणोदः इत्यादि शेवधिः, निधिः तत्प्रभेद:
'महापश्च पाश्च, शङ्खो मकरकच्छपौ ।
मुकुन्दकुन्दनीलाश्च, खर्वश्च निधयो नव ॥ १॥ पद्मस्य विभबिन्दी नपुसकत्वम्। देही, जन्तुः, जन्मी, जन्मशब्दोऽकारान्तोऽप्यस्ति, जन्तुः पुनपुसकः तत्प्रभेदः ब्राह्मणः, क्षत्रियः, वैश्यः, शूद्रः इत्यादि । देवः सुर: इत्यादि । तत्प्रभेद: इन्द्रः, चन्द्रः इत्यादि। माननाम तूल:, कुडवः, प्रस्थ: पुनपुसकः, पाढकस्तु त्रिलिङ्गः। द्रुमनाम अंहिपः, वनस्पतिः। विषयनाम विषय इन्द्रियग्राह्यो गन्धशब्दस्पर्शादिः। देशश्च तुबररावकषायकोलाहलनीलानां पुक्लीबत्वं, रूपस्य तु नपुंसकत्वम् । आशुगनाम पतत्रिः, शरबारणकाण्डाः पुनपुसकाः । इषस्त्रिलिङ्गः । धान्यनाम व्रीहिः, स्तम्बकरिः। धान्यसोत्यशस्यानां संयुक्तयान्तत्वेन नपुसकत्वम् । भाषाण पुनपुसको । पाढकी प्रियंगू स्त्री, मसूरः स्त्रीपुसः, शणं नपुसकम् । अध्वरनाम अध्वरः, मखः, यज्ञः। वितान-वाजपेय-राजसूयानां यज्ञविशेषाणां पुनपुसकत्वम् । बर्हिः सत्रयोस्तु नपुसकत्वम् । अग्निनाम भास्करः, प्राशुशुक्षणिः, अयमण्यन्तोऽपि बाहुलकात् पुसि । मरुन्नाम वातः, समानस्तु पुनपुसकः ।। ३ ।।
बोऽच्छदेऽहिर्वप्रे, वह्यग्न्योर्हायन - बहिषौ ।
मस्तुः सक्तौ स्फटिकेऽच्छो नीलमित्रौ मणीनयोः ॥ ४ ॥ छदः पर्ण पिच्छं च, ततोऽन्यस्मिन् बर्हः पुसि, बर्हः परिवारः तयोस्तु पुनपुसकः । वप्रे केदारेऽहिः पुसि, सर्प तु पुस्त्री। हायनबहिषौ व्रीहावग्नौ च पुसि । वर्षरश्म्योश्च भेदे पुनपुसको। बहिषाऽग्निनामत्वादेव सिद्धे द्विस्वरसन्तक्लीबत्वबाधनार्थम् । सक्तो धानाविकारे मस्तुः, अन्यत्र तु स्त्वन्तत्वात् क्लीबत्वम् ।
स्फटिकेऽच्छः, अयमव्ययमाभिमुख्येऽप्यस्ति । मणौ रत्ने इने सूर्ये क्रमेण नील