SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४०४ ] बृहद्वृत्ति-लघुन्याससंवळिते [पाद. ४ सू. १२२ ] निवृत्ता विभक्तिलपा अन्वाख्यायते, अलुप्समासे तु शब्दान्तरं विभक्त्यन्तप्रतिरूपावयवमनेनोपायेन प्रतिपाद्यते, तथा वाक्ये व्यक्ताभिधानं भवति । ब्राह्मणस्य कम्बलस्तिष्ठति। समासे पुनरव्यक्त ब्राह्मणकम्बलस्तिष्ठतीति, संदिह्यतेऽत्र षष्ठीसमासो वा संबोधनं वेति । किंचित्पुनरव्यक्त वाक्ये । यथार्ध पशोर्देवदत्तस्येति । पशुगणस्य वा देवदत्तस्य यदधं यो वा संज्ञीभूतो पशुस्तस्य यदर्धमिति । तच्च समासे व्यक्तम् अर्धपशु देवदत्तस्येति, तथा वाक्ये उपसर्जनविशेषणं भवति । ऋदस्य राज्ञः पुरुषः, समासे न भवति । राजपुरुषः। यथाहुः-'सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति' । विशेषणयोगे हि सापेक्षत्वेनागमकत्वात्सामर्थ्य न भवति । यत्र च 'कचिद्विशेषणयोगेऽपि गमकत्वं तत्र भवत्येव समासः यथा देवदत्तस्य गुरुकुलम्, यज्ञदत्तस्य दासभार्या । यदाह 'संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते । स्वार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते ।१। तथा वाक्ये चयोगो भवति स्वचयोगः स्वामिचयोगः । राज्ञो गोश्चाश्वश्च पुरुषश्च । चैत्रस्य मैत्रस्य मित्रस्य च गौः । समासे न भवति । राज्ञो गोश्वपुरुषाः । चैत्रमैत्रमित्राणां गौरिति । यदि समर्थः पदविधिः कथमसामर्थ्य सूर्यमपि न पश्यन्त्यसूर्यपश्या राजदाराः, पुनर्न गीयन्तेऽपुनर्गेया: श्लोकाः, श्राद्धं न भुक्तंऽश्राद्धभोजी, अलवणभोजी, सर्वश्चर्मणा कृतः सार्वचर्मीणो रथः, कृतः पूर्व कटोऽनेनेति कृतपूर्वी कटम् इत्याचा वृत्तयो भवन्ति । किं हि वचनाम्न भवति ।१२२। __ न्या० स० सम०-व्यपेक्षेति परस्पराकाक्षेत्यर्थः सा च वाक्ये संभवति, एकार्थीभावस्तु समासे । संबद्धार्थ इति संबद्धोऽर्थो यस्य यत्र झटित्येव पदानामन्वयः प्रतीयते राज्ञः पुरुष इत्यादौ संबद्धार्थः पदविधिः । संप्रेक्षितार्थ इति संप्रेक्षितः कष्टकल्पनया प्रतीतोऽथों यत्र यथा राजोत्पले हरिभुजामिह के शवस्य, यस्योरसीन्दुरदनं च जटाकलापे । शं खाम्बरोऽपि पवनादरिनाथसूनुः, कान्ता स वोऽगतनया बिपुलं ददातु ॥१॥ इत्यादौ क्लिष्टकाव्ये कष्टकल्पनयार्थः प्रतीयते, अस्य काव्यस्य व्याख्या यस्योरसि हरिभुजां वायुभुजां सर्पाणां राजा शेषः, यस्य च जटाकलापे इन्दुर्यस्य च शवस्य के मृतकस्य के मस्तके उत्पले निर्मा से अदनं भक्षणं, यस्य च कान्तागतनयाद्रिसुता
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy