SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ [ पाद. ४. सू. १२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [४०३ व्याघ्रात भयं चैत्रस्य मैत्रात, भार्या राज्ञः, पुरुषो देवदत्तस्य, सक्तस्त्वमक्षेष, शौण्डः पिबति पानागारे इति, नामधातुः, पुत्रमिच्छति पुत्रीयति, श्येन इवाचरति श्येनायते । समर्थ इति किम् ? पश्यति पुत्रमिच्छति सुखम्, कृत्-कुम्भं करोति कुम्भकारः, समर्थ इति किम् ? पश्य कुम्भं करोति कटम् । तद्धितः, उपगोरपत्यमोपगवः । समर्थ इति किम् ? गृहमुपगोरपत्यं तव । उपपदविभक्तिः नमो देवेभ्यः, अभिजानासि देवदत्त काश्मीरेषु वत्स्यामः, उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय । समर्थ इति किम् ? इदं नमो देवाः शृणुत, देवदत्त मातरं स्मरसि, अवसाम दीर्घ मगधेषु । युष्मदस्मदादेशः, धर्मस्ते स्वं धर्मो मे स्वम् । धर्मो व: स्वं धर्मो नः स्वम् । समर्थ इति किम् ? ओदनं पच, तव भविष्यति, मम भविष्यति । प्लुत,-अङ्ग कज ३ इदानीं ज्ञास्यसि जाल्म । समर्थ इति किम् ? अङ्ग कूजत्ययमिदानी ज्ञास्यति जाल्मः । पदग्रहणाद्वर्णविधिरसामर्थेऽपि भवति, तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति । यत्वं द्वित्वं च भवति । एवं समासनामधातुकृत्तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः। शेषष पुनर्व्यपेक्षव सामर्थ्यं भवति । ननु च राज्ञः पुरुषमानयेत्युक्ते योऽर्थे आनीयते राजपुरुषमानयेत्यप्युक्त स एव तत्कोऽत्र व्यपेक्षका भावयोविशेषः । उच्यते, संख्याविशेषो व्यक्ताभिधानमुपसजनविशेषणं चयोगश्चेति । तत्र राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञां पुरुषः इति वाक्ये संख्याविशेषो भवति, समासे न भवति । राजपुरुषः । वाक्ये युपसर्जनानि विभक्तार्थाभिधायित्वात्संख्याविशेषयुक्त स्वार्थ प्रतिपादयन्ति । समासेऽन्तर्भूतस्वार्थं प्रधानार्थमभिदधतीत्यभेदकत्वसंख्यां गमयन्ति । संख्याविशेषाणामविभागेनावस्थानमभेदैकत्वसंख्या ।। 'यथोषधरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते ता संख्यां तादृशीं विदुः' ।१। विभक्तिवाच्यैव तु संख्या वृत्ती निवर्तते नामादिगम्या तु न निवर्तते । यथा द्विपुत्रः पञ्चपुत्र इत्यादी नामार्थ एवं संख्याविशेषः । तावकीनो मामकीन इत्यादेशाभिव्यङ्गयमेकत्वम् । शौर्षिकः मासजात इति परिमाणस्वाभाव्यादेकत्वसंख्यावगमः । कारकमध्यं व्यञ्जनमध्यमित्यादी मध्यान्यथानुपपत्त्या द्वित्वावगमः । यत्रापि वृत्तौ विभक्तलब नास्ति दास्याः पूत्र देवानांप्रियः आमुष्यायणः अप्सव्यः गोषुचरः वर्षासुज इति तत्रापि संख्याविशेषो नास्ति सामान्येन विशेषणमात्रप्रतीतेः । अत एव वृत्ती संख्याभेदाभावात्स्वभावतो
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy