SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४०२ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पा० ४. सू० १२२ ] सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । तच्च सामर्थ्यं व्यपेक्षा एकार्थीभावश्च । अत्र व्यपेक्षायां संबद्धार्थः संप्रेक्षितार्थो वा पदविधि: साधुर्भवति । एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः संगतार्थः संसृष्टार्थो वा पदविधिः स साधुर्भवति, अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् व्यर्थानि अर्थान्तराभिधायी नि वा भवन्ति । पदविधिश्व समासनामधातुकृत्तद्वितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः, द्वितीया 'श्रितादिभिः ' । धर्मं श्रितः धर्मंश्रितः, ' तृतीया तत्कृतैः । शङकुलया कृतः खण्डः शङ्कुलाखण्ड: । ' चतुर्थी प्रकृत्या यूपाय दारु यू दारु, 'पञ्चमी भयाद्यै: ' त्रृकाद्भयं वृकभयम्, ' षष्ठययत्नाच्छेषे राज्ञः पुरुषः राजपुरुषः, 'सप्तमी शौण्डाद्यं: ' अक्षेषु शौण्डः अक्षशौण्डः, ' विशेषणं विशेष्येणैकाथं कर्मधारयश्च' नीलं च तदुत्पलं च नीलोत्पलम्, एषु पूर्वोत्तरपदयोर्वाक्यावस्थायां परस्पराकाङ्क्षालक्षणा व्यपेक्षा । वृत्त्यवस्थायां तु पृथगर्थानां सतामेकार्थीभाव इति । तथा हि- धर्ममित्येतत्साधनत्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकर्तृ वाचि स्वक्रियाविषयं साधनमपेक्षते, तयोश्च परस्परसंसर्गात् मूछितावयव इव वृत्तावेकार्थीभावो भवति । " 1 धर्मं श्रितो धर्मंश्रितश्चैत्र इति, एवं शङकुलया कृतः खण्डः शंकुलाखण्ड इति कर्तृकर्मणोर्गम्यमानकरोतिक्रियाकृता वाक्ये व्यपेक्षा । वृत्तावेकार्थीभावः, एवं चतुर्थीसमासादावपि यूपायेत्यादि सामान्यमवच्छेदाय भेदानाकाङ्क्षति कि यूपाय गच्छत्यागच्छति पुष्पं दारु वेति । दार्वपि यूपाय गृहाय दाहाय वेति भेदानाकाङ्क्षति । एवं सर्वत्र उपसर्जनानां प्रधानानां च परस्परमाकाङ्क्षावतां कचित्प्रकृतिविकारभावलक्षणः क्वचिदवध्यवधिमद्भावात्मकः कचित्स्वस्वामिभावः कचिद्विषयविषयिभावरूपः संबन्धो वाक्ये व्यपेक्षा, वृत्तौ स्वेकार्थीभावः । एवं नीलमित्येतद्विशेषणं गुणत्वात् द्रव्यमाकाङ्क्षति । उत्पलमित्येतदपि सर्वोत्पलावग्रहरूपेण प्रवृत्तं सद्विशेष्यत्वाद्विशेषणं गुणमाकाङ्क्षति । वृत्तौ पुनरेकार्थीभावेन पांसूदकवदविभागापन्नो तावुभावप्यर्थावेकस्मिन्नधिकरणे मूर्च्छिताविव भवतः । नीलं च तदुत्पलं च नीलोत्पलमिति, तदेतत्सामर्थ्य - विशेषोक्तमपि लोकव्यपेक्षया वृत्त्यवृत्त्योः स्वभावेन विभक्तमवतिष्ठते । यत्र त्वसामर्थ्यं तत्र समासो न भवति । पश्य धर्मम् श्रितो मैत्रो गुरुकुलम्, किं ते शकुलया खण्डो मैत्र उपलेन, गच्छ यूपाय दारु शोभनं शैले, निवर्तस्व ,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy