SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ VIH [पाद. ४. सू. ११०] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३९५ प्रतिषेधो भवतीति स्थानिवद्भावप्रतिषेधाच्च प्रदीव्येत्यादौ 'ऊदितो वा' ४-४-४२ इतीटू प्राप्तः सकारतकाररूपाप्रधानवर्णाश्रयत्वात् स्थानित्वाभावे न भवति । ___ गुणप्रतिषेध इति अत्रापि न स्थानिवर्णाश्रयं किमपि कार्य विधीयते किंतु स्थानिनो योऽनुबन्धः ककारादिलक्षणस्तदाश्रय एव गुणप्रतिषेधस्तत्र च स्थानित्वम् । अथानुबन्धानामप्रयोगित्वात् कथं तेष्वसत्सु तदाश्रयं कार्यमुच्यत इत्यत आह-अनुबन्धा इत्यादि, वर्णविधिह्येष इति । वर्णात् परतो विधिरिति समासात् । श्रूयमाणासन्तेति भ्वादयो हि तावत पिडग्रः चर्मव इत्यादयः भूयमाणा सन्त एवं प्रतिषिध्यन्ते, ततश्च गृह्यन्तेऽपि श्रूयमाणासन्त एव । स्वरस्य परे प्राविधौ ॥ ७. ४. ११० ॥ स्वरस्यादेशः परे परनिमित्तको व्यवहितेऽव्यवहिते वा पूर्वस्य विधी कर्तव्ये स्थानीव भवति । कथयति, अवधीत् । अत्राल्लुकः स्थानिवद्भावादुपान्त्यलक्षणा वद्धिर्न भवति । स्पृहयति, मृगयते । अत्र लघुपान्त्यलक्षणो गणो न भवति । पादाभ्यां तरति पादिकः, अत्र पद्भावो न भवति । शातनी, पातनी। अत्रानोऽस्य लुग् न भवति । धरणस्यापत्यं धारणिः । रवणस्यापत्यं रावणिः । अत्र 'नोऽपदस्य'-(७-४-६१) इत्यन्त्यस्वरादिलोपो न भवति । स्रस्यते, ध्वंस्यते । अत्र णिलुकः स्थानिवद्भावादुपान्त्यनकारलोपो न भवति । याज्यते, वाप्यते,-अत्र वृन्न भवति । निरादनं पूर्व निराध, समाद्य । अत्र जग्धादेशो न भवति । घात्यात् । अत्र वधादेशो न भवति, निगार्यते, निगाल्यते । अत्र 'नवा स्वरे' (२-३-१०३) इति पक्षे लत्वम् । चातुरौ, आनडुहो । अत्र औत्वादेशस्य स्थानिवद्भावात् 'वाः शषे' (१-४-८२) इति वा न भवति । पादे । अत्र एत्वादेशस्य स्थानिवद्भावात्पभावो न भवति । उभयजन्यत्वेऽपि अन्यतरव्यपदेशात् औत्वत्वयोः परनिमित्तत्वम् । अवीवदद्वीणां परिवादकेनेत्यत्र तु णिजात्याश्रयणादुपान्त्यस्य इस्वो भवति । द्वाभ्यामित्यत्र तु निमित्तापेक्षया प्राविधावास्वेऽत्वस्य न स्थानित्वम् । 'वैकत्र द्वयोः' (२-२-८५) इति निर्देशात् । स्वरस्येति किम् ? अक्राष्टाम्, अद्राष्टाम् । अत्र सिज्लोपो न स्वरादेश इति षढोः कः सि' (२-१-६२) इति कत्वे स्थानी न भवति । आगत्य, अभिमत्य । अत्र पञ्चमलोपो हस्वलक्षणे तकारे स्थानी न भवति । पर इति किम् ? द्वौ पादौ ददाति द्विपदिकां ददाति, अत्राल्लुचः परनिमित्तत्वाभावात् स्थानिस्वाभावे पदादेशो भवति । प्राविधाविति किम् ? बाभ्रव्यस्य छात्राः बाभ्रवीयाः ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy