________________
३९६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[ पा० ४. सू० १११ ]
अत्र ' तद्धितस्वरेऽनाति' ( २-४ - ९१ ) इति यलोपे परविधौ कर्तव्येऽवादेशः स्थानी न भवति । निधानं निधिः, तस्यापत्यं नैधेयः, निधिकः । अत्र ' इडेत्पुसि चातो लुक्' (९ - ३ - ९४ ) इत्याकारलोपो द्विस्वरलक्षण एयणिकप्रत्ययविधो परस्मिन् स्थानी न भवति । अन्यथा त्रिस्वरत्वात्प्रत्ययो न स्यात् । इलुकाया अदूरभवं नगरमैलुकम्, परिखायाः पारिखम्, तत्र भव: ऐलुकीयः पारिखीयः । अत्राण्याकारलोपः परविधौ कखोपान्त्यलक्षणे ईये स्थानी न भवति । पूर्वस्माद्विधिः प्राग्विधिरित्यप्याश्रीयते, तेन अधुक्षन्तेति ' स्वरेऽतः ( ४-३ - ७५ ) इति सकोऽकारलोपस्य परमप्यदादेशं प्रति स्थानिवद्भाव इति स न भवति । पूर्वत्रावर्णविधाविति प्रतिषेधाद्वर्णं विध्यर्थं वचनम् ।११०।
न्या० स० स्वर० - वृद्धिर्न भवतीति 'ञ्णिति' ४-३ - १०० 'व्यञ्जनादेव पान्त्यस्यातः ' ४-३-४७ इत्याभ्याम् ।
भौत्वैत्वयोरिति इष्टसिध्यर्थमकारस्यैव व्यपदेशः कार्यः, न त्वौकारैकारयोः ।
न संधिङी
दीर्घासद्विधावस्क्लुकि ॥ ७ ४. १११ ॥
1
पूर्वेणातिप्रसक्तः स्थानिवद्भावः प्रतिषिध्यते । संधिविधी ङोविधो यविधो विविधद्वयोद्वित्वस्य विधौ दीर्घविधी ' संयोगस्यादौ स्कोर्लुक्' ( २-१-८८) इति स्क्लवजितेऽसद्विधौ च स्वरस्यादेशः स्थानीव न भवति । कि लो ' ( १ - ३ - ६५ ) इति यावत्संधिविधिः । तत्र वियन्ति अपयन्ति । अत्रेणो यत्वं स्वरादेशः परनिमित्तकः पूर्वविधौ दीर्घत्वे एस्वे च कर्तव्ये स्थानीव न भवति । तानि सन्ति, तौ स्तः, अत्रास्तेरल्लोपो यत्वे आवादेशे च कर्तव्ये स्थानी न भवति । वैयाकरणः, सौवश्व:, अत्र यत्ववत्वयो: स्थानिवद्भावाभावादेदौतोरायावादेशो न भवतः । शिष्टि, पिण्डि । अत्र श्रस्याकारलोपो 'नां धुड्बर्गेऽन्योऽपदान्ते' ( १ - ३ - ३९ ) इति वर्गान्त कर्तव्ये स्थानी न भवति । शिषन्ति पिवन्ति इत्यत्र त्वनुस्वारे | जक्षतुः, जक्षुः । अत्र प्रथमत्वे घसेरुपान्त्यलोपः । निमित्तापेक्षयापि प्राग्विधिरिष्यते, तेन नयनं लवनमित्यत्र गुणस्य स्थानिवद्भावप्रतिषेधादयवादेशौ सिद्धौ । स्थानिवद्भावे त्वियुवादेशी स्याताम् । ङीविधी, बिम्ब्याः फलं बिम्बम् हेमादित्वादञ् । 'फले ' ( ६-२- ५८ ) इति लुप् । ङच्चादेरित्यादिना ङीलुप् तस्य परनिमित्तत्वेऽपि स्थानिवद्भाव निषेधात् मस्य ङय लुक् ' (२ - ४ - ८५ ) इत्यकारस्य लुग् न भवति । एवमामलक्याः फलमामलकम्, ' दोरप्राणिनः ' ( ६-२-४९)
6