________________
३९४ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १०९ हविः, अत्रेकारस्य वृद्धो कृतायां स्थानिवद्भावादवर्णेवर्णस्य (७-४-६८) इति लोपः प्राप्तो न भवति । वर्णेन विधिः । उरःकेण । उर:पेण: । उरु ) केण । उर - पेण । अत्र सकारादेशानां विसर्जनीयजिह्वामूलीयोपध्मानीयानां स्थानिवद्भावप्रतिषेधादलचटतवर्गशसान्तरे इति णत्वप्रतिषेधो न भवति । व्यूढोरस्केन महोरस्के नेत्यत्र तु सकारे कृते स्वाश्रयः प्रतिषेधः प्रवर्तते । अप्रधानवर्णाश्रयो विधिः । प्रदीव्य, प्रसीव्य । अत्र स्तादीत्यन्यपदार्थस्याशित: प्राधान्यात् स्तोरप्राधान्य मिति स्थानिवद्भावप्रतिषेधो भवति । स्थानिवर्णाश्रयकार्यप्रतिषेधाच्चादेशवर्णाश्रयाणि स्थान्यनुबन्धाश्रयाणि च कार्याणि भवन्त्येव । आदेशवर्णाश्रयाणि । सर्वेषाम् । अत्र सामादेशे कृते सकाराश्रयमेत्वं भवति । स्थान्यनबन्धाश्रयाणि । प्रभिद्य, निरुध्य, प्रणीय, प्रलय । अत्र क्वो यवादेशे कृते स्थानिवद्भावेन विडतीति गुणप्रतिषेधो भवति । अनुबन्धा ह्यसन्त एव गुणाभावादिकं कार्यं कुर्वन्ति । अथ कथमग्रहीदित्यत्रेटो दीर्घत्वे स्थानिवद्भावादिट ईतीति सिचो लोपो भवति, वर्णविधिह्यषः ? उच्यते,-नायं वर्णविधिः, विशिष्टं ह्येष समुदायमवर्णमाश्रयते इटं नाम । अथ शोभना दृषदोऽस्य सुदृषदित्यत्र जस्लुपः स्थानिवद्भावेनासन्तत्वात् 'अभ्वादेरत्वसः सौ' (१-४-९०) इति दीर्घः कस्मान्न भवति । 'लुप्यय्वल्लेनत्' (७-४-११२) इति प्रतिषेधात् । भ्वादिप्रतिषेधेन श्रूयमाणासन्तपरिग्रहाच्च न भवति । सुदषदानित्यत्र तु इतिकरणसामदिसन्तलक्षणो विन्न भवति ।१०९।
न्या. स. स्थानी०-अवर्णविधावित्यस्यार्थमाह-न चेत् तानीत्यादि वर्णाश्रयाणि कार्याणि त्रिविधानि विद्यन्ते, आदेशवर्णाश्रयाणि अनुबन्धवर्णाश्रयाणि स्थानिवर्णाश्रयाणि च, तत्र स्थान्याश्रयाणां कार्याणामतिदेशप्रस्तावेन स्थानिवर्णाश्रयाणामेवावर्णविधाविति प्रतिषेधो न्याय्यो, न त्वादेशाश्रयाणामनुबन्धाश्रयाणां चेति मनसिकृत्य स्थानिवर्णाश्रयाणीत्युक्तम् , तेन सर्वेषां प्रभिद्येत्यादौ सामादेशे क्त्वो यबादेशे च कृते स्थानिवद्भावात् सकाराश्रयमेवम् , अक्ङिति इति गुणप्रतिषेधश्च भवत्येवाकार्यशब्दं पुनः पुनः प्रयुञ्जानः कार्यातिदेशतामभ्याचष्टे. एवं च यत्कार्य वर्णमचार्य विधीयते तद्वर्णाश्रयमस्तु, यत्तु धात्वादिसमुदायोच्चारेण न तवर्णाश्रयं वर्णस्य तत्र शब्देनासंसर्गात् ।
ननु अग्निर्माणवकइतिवदिवग्रहणमन्तरेणापीवार्थानुमानं भविष्यति किमिवग्रहणेन ? इत्याशङ्क्याह-इवग्रहणं स्वाश्रयार्थमिति स्वस्य स्थानिस्वरूपस्य हन्इत्वादेराश्रय आश्रयणं तदर्थम, अन्यथा इवग्रहणाभावे संज्ञासंझिर्सबन्धो विज्ञायेत, आदेश इति संज्ञी स्थानीति च संज्ञा ततो यत्रादेशः स्थानी च स्यात्तत्र स्थानीत्यादेशस्य संज्ञा विज्ञायेतेतीवग्रहणम् ।
स्वाश्रयः प्रतिषेध इति 'प्रत्यये' २-३-६ इत्यनेन यः कृतः सकारस्तदाश्रयो णत्वनिषेधो, न तु मूलभूतसकाराश्रयः तस्य वर्णत्वात् वर्णाश्रये च स्थानित्वनिषेधात् ।