________________
[ पाद ४. सू० १०८-१०९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३९३ नसमासः क्रियते । तस्मिन् कृते विषयगतायाः संख्याया अग्रहणे स्वसंख्यायाः अपरित्यागादेकवचनोपपत्तिः, अन्ये तु विषयगतां संख्यामाश्रित्य द्विवचनबहुवचनयोरुत्पत्तिमिच्छन्ति अनेको अनेके इति, तेन कदाचिदनेको वर्णोऽस्येति बहुव्रीहिः कदाचिदनेके वर्णा अस्येति । प्रत्ययस्य ।। ७. ४. १०८ ॥
प्रत्ययस्थाने विधीयमान आदेशः सर्वस्य भवति । सर्वे, अष्टौ, कति ।१०८। स्थानीवावर्णविधौ ॥७. ४. १०९ ॥
स्थान प्रसङ्गः, सोऽस्यातीति स्थानी आदेशी, आदेशस्थानिनोः पृथक्त्वास्थानिकार्यमादेशे न प्राप्नोतीत्यतिदिश्यते । आदेशः स्थानिवद्भवति स्थान्याश्रयाणि कार्याणि प्रतिपद्यते 'अवर्णविधौ' न चेत्तानि स्थानिवर्णाश्रयाणि भवन्ति, तत्र धातुप्रकृतिविभक्तिकृदव्ययपदादेशा उदाहरणम् । धात्वादेशो धातुवद्भवति । 'अस्तिब्रुवो वचावशिति' (४-४-१) भूवचोस्तृजादयो भवन्ति । भविता, भवितुम्, भवितव्यम्, वक्ता, वक्तुम्, वक्तव्यम् । प्रकृत्यादेशः प्रकृतिवत् । कस्मै, के, केषाम् । किमः कादेशे कृते सर्वादित्वास्मायादयो भवति । विभक्त्यादेशो विभक्तिवत् । वृक्षाय, प्लक्षाय, राजा। अत्र स्यादित्वाद्दीर्घत्वं पदत्वं च भवति । पचेयम्, पचेयुः । अत्र आद्यन्तत्वात्पदत्वम् । कृदादेशः कृद्वत् । प्रकृत्य । प्रहृत्य । अत्र क्त्वो यबादेशे 'स्वस्य तः पित्कृति' (४-४-११४) इति तोऽन्तो भवति । अव्ययादेशोऽव्ययवत् । प्रस्तुत्य, उपस्तुत्य । अत्र 'अव्ययस्य' (३-२-७) इति सेल प् भवति । पदादेश: पदवत्, धर्मो वो रक्षतु, धर्मो नो रक्षतु, पदत्वात्सो रुत्वम् । इवग्रहणं स्वाश्रयार्थम्, अन्यथा स्थानीत्यादेशस्य संज्ञा विज्ञायेत, तेन आहत आवधिष्टेत्यादी 'आडो यमहनः स्वेऽङ्गे च' (३-३-८६) इत्यनेनोभयत्राप्यात्मनेपदं भवति । अन्यथा वधेरेव स्यात् । अवर्णविधाविति किम् । वर्णाश्रयो विधिर्वर्णविधिरिति समासस्याश्रयणाद्वर्णात्परस्य विधिर्वणे परतो विधिर्वर्णस्य स्थाने विधिवर्णन विधिरप्रधानवर्णाश्रयो वा विधिर्वर्णविधिरिति सर्वत्रावर्णविधाविति प्रतिषेधो भवति । तत्र वर्णात्परस्य विधिः । द्यौः, पन्थाः, सः । अत्र औत्वात्वत्यदायत्वेषु कृतेषु स्थानिवद्भावाव्यञ्जनात्परस्य सेलोपः प्राप्नोति स न भवतीति । वर्णे परतो विधिः । क इष्टः, स उप्तः, अत्र य्वति कृते 'घोपवति' (१-३-२१) इति रोरुत्वम् 'एतदश्च'-(१-३-४६) इत्यादिना सेर्लोपश्च न भवति । वर्णस्य स्थाने विधिः, श्रीर्देवतास्य श्रायं