________________
।
[पाद. १. सू. ३२) श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोध्यायः एयणादयोऽपि व्याख्याताः । कथं तहि क्रौञ्चः कौकिलः, गौधेरः, चाटकर इति । जातिशब्दा एवेते यथाकथंचिद्व्युत्पाद्यन्ते । यथा क्षत्रं क्षत्रियः, राजा राजन्यः, मनुः मनुष्यो, मानुष इति । अनभिधानाच्च शतसर्ववृद्धकारकराजपुरुषमाथुरकुरकुररादिभ्यो न भवति । जकारो जित्कार्यार्थः ॥३१॥ ___न्या० स० अत इम्-इरिति नन्वग वृष्णित्वादण् प्राप्नोति ? न, तत्र प्रसिद्धा वंश्याख्या क्षत्रिया गृह्यन्ते, अयं तु न तथाविधः । शौभंय इति शुभं याति । यातीति विच् , शुभंयोऽपत्यं एवं कैलालपः । मैथिलीति मिथिलाया अयं स्वामी 'तस्येदम्' ६-३-१६० अणि मैथिलस्यापत्यं ऋष्यणि डोः । मैथिलस्य गज्ञोऽपत्यं वा 'राष्ट्र क्षत्रियाद्' ६-१-११४ इत्यम् ।
जात्यैवेति यतः सर्वोऽपि लोकः काकं दृष्ट्वा काकोऽसावित्येव व्यवहरति न काकापत्यमिति । एतेनेति पूर्वोक्तप्रकारेणेत्यर्थः । एयणादयोऽपीति विशेषप्रतीतो भवन्ति, अन्यत्र जात्याभिहितत्वान्न भवन्तीत्यर्थः । कौंञ्च इति एषु त्रिषु गोधावर्जमजादित्वादाप् तत्र द्वयोः शिवादित्वादण् । यथाकथमिति न किमप्यपत्यविवक्षाफलं तादृशमस्तीति भावः । क्षत्रमिति क्षणनं क्षत् , क्विप् मां क्वौ,४-२-५८ इति नलोपे तागमे क्षतखायते. क्षणनं क्लीबेक्त: 'यमिरमि ४-२-५० इत्यन्तलोपः । क्षतात जायते ' स्थापा' ५-१-१४२ इति के पृषोदरादित्वादऽस्य लोपः । क्षदि हिंसार्थः सौत्रो वा 'हुयामा' ४९१ (उणादि) इति त्रः । बाहादिभ्यो गोत्रे ॥ ६. १. ३२॥
स्वापत्यसंतानस्य स्वव्यपदेशकारणमृषिरनषिर्वा यः प्रथमः पुरुषस्तदपत्यं गोत्रम् । बाह्वादिभ्यो ङसन्तेभ्यो गोत्रेऽपत्येर्थे इञ् प्रत्ययो भवति, अनकारान्तार्थो बाधकबाधनार्थश्चारम्भः । बाहोरपत्यं बाहविः, औपवाकविः, नैवाकविः, औदश्विः, इहोदाश्चिति पैलादिषु चोदचीति सनकारस्य पाठादन यामपि नलोपाभावः । गोत्र इति किम् ? योऽद्यत्वे बाहु म तस्यापत्यं बाहवः । संभवापेक्षं च गोत्रग्रहणम्, तेन पञ्चानामपत्यं पाहिचः, साप्तिः, आष्टिः इत्यादि सिद्धम् । बाहु, उपवाकु, निवाकु, वटाकु, चटाकु, उपबिन्दु, चाटाकु, वृकला, कृकला, चूडा, बलाका, जङ्घा, छगला, भगला, लगहा, ध्रुवका, धुवका, मूषिका, सुमित्रा, दुमित्रा । कलादिभ्यो यथासंभवमेयणो मानुषीनामलक्षणस्य चाणोऽपवादोऽयमिज् । युधिष्ठिर, अर्जुन, राम, संकर्षण, कृष्ण, गद, प्रद्युम्न, शाम्ब, सत्यक, शूर, असुर, अजीगत, मध्यंदिन, एषु ऋष्यादिलक्षणस्याणोऽपवादः । सुधावन् स्वधावत्, पुष्करसद्, अनुरहत्, अनडुङ, पन्चन् सप्तन्, अष्टन्, क्षेमधन्विन्, माषाशिरोविन्,शृङ्खलतोदिन, खरनादिन् प्राकारदिन्, नगरमदिन, इन्द्रशर्मन, मद्रशर्मन्, अग्निशर्मन्, देवशर्मन्, उपदकच, उवच, कुनामन् सुनामम् सुदामन्, शिरस् लोमन् एतौ तदन्तौ । हस्तिशिरसोऽपत्यं हास्तिशिषिः, बोड़लोमिः, शारलोमिः,