SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ बृहवृत्ति-लघुन्याससंवलिते पा० १. सू० ३०-३१ ] स्थितमेतत् अपत्यप्रत्ययोऽनपत्यप्रत्ययान्ताया एव प्रकृतेर्भवतीति । आगच्छति चापरे प्रत्यये अप्रेतनो निवर्त्तत एव । __ अनन्तरादयोऽपीति न केवलं गर्ग इत्येवंरूपा प्रकृतिः परमप्रकृतिरूपेण प्रत्ययमुत्पादयति, गार्गि-गार्ग्य-गाायणादयोऽपि अनन्तरवृद्धयुवानः परम प्रकृतिरूपेणैव प्रत्ययमुत्पादयन्ति । अयमर्थः पुत्रपौत्रादयोऽपि मूल प्रकृतेरेवोत्पन्नैः प्रत्ययैरभिधीयन्ते न तत्सविभिन्न प्रत्ययान्तायाः प्रकृतेरूत्पन्नैः । वृद्धाधूनि ॥ ६. १. ३०॥ यून्यपत्ये विवक्षिते यः प्रत्ययः स आद्यात्-वृद्धात् परमप्रकृतेर्यो वृद्धप्रत्ययस्तदन्ताद्भवति । 'आद्यात् ' (६-१-२९) इत्यस्यापवादः । वृद्धादिति यूनि प्रकृतिविधीयते। गर्गस्यापत्यं वृद्धं गायः, तस्यापत्यं युवा गाग्र्यायणः । दक्षस्यापत्यं पौत्रादि दाक्षिः, तस्यापत्यं युवा दाक्षायणः, नडस्यापत्यं वृद्धम् नाडायनः, तस्यापत्यं युवा नाडायनिः । यूनीति किम् ? गार्यः, नाडायनः । आद्यात इत्येव ? उपगोरपत्यं वृद्ध मौपगवः तस्यापत्यं युवा औपगविः । गाग्र्यायणस्य अपत्यं युवा गाायणः, अत्रायन ण् इश् च न भवनि ॥३०।। न्या० स० वृद्धाद्यनि-यूनि प्रकृतिरिति यूनि प्रत्यये विधातव्ये वृतप्रत्ययान्त एवाद्य इत्यर्थः। तस्याप्यपत्यं युवा औपगविरति पुनर्वृद्धप्रत्ययान्तलक्षणात् परमप्रकृतेरिञ् नेवन्ताबन्यो युवार्थप्रत्यय इत्यर्थः । अत्रायनण् इम् च न भवतीति, ननु 'वृद्धाधुनि' ६-१-३० इति वचनात् वृद्धप्रत्ययान्तादेव यूनि प्रत्ययो, न तु युवप्रत्ययान्तादित्यत्र प्राप्तरेव नास्ति ? सत्यं, अत्र औपगव्यादि यत् युवसंज्ञमपत्यं तत्पौत्रादि वृद्धमिति सामान्येन भणनात् वृद्धमप्यस्तीति प्राप्तिः । अत इञ् ॥ ६. १. ३१ ।। ङसोऽपत्य इति वर्तते, अकारान्तात् ङसन्तान्नाम्नोऽपत्येऽर्थे इन् प्रत्ययो भवति, अणोऽपवादः । दक्षस्यापत्यं दाक्षिः, अस्यापत्यम् इः । अत इति किम् ? शौभंयः, कैलालपः, । केचित्तु शुभंयाकोलालपाशब्दाभ्यामणमपि नेच्छन्ति कथं ' त्यजस्व कोपं कुलकीर्तिनाशनम्, भजस्व धर्म कुलकोतिवर्धनम् । प्रसीद जीवेम सबान्धवा वयं, प्रदीयतां दाशरथाय मैथिली ॥१॥ तस्येदमिति विवक्षायामण भविष्यति, अपत्यविवक्षायां तु दाशरथिग्त्येिव भवति । अथ काकबकशुकादेः कस्मान्न भवति । जात्यवापत्यार्थस्य पौत्रादेरनन्तरस्य चाभिहितत्वात, यत्र त्वर्थप्रकरणादेविशेषप्रतीतिरस्ति तत्र भवत्येव, यथा कुतश्चरति मायूरिः केन कापिञ्जलिः कृशः, एतेन काक्यादिभ्य
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy