SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ [पाद. १. सू. २९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः प्रत्यया भवन्ति । उपगोरपत्यमोपगवः । धानपतः, दैत्यः, औत्सः, स्त्रैणः. पौंस्नः । अपत्य इत्यपत्यमानं विवक्षितं न लिङ्गसंख्यादि, तेन द्वयोबहुषु स्त्रीलिङ्गादौ च भवति । औपगवो, औपगवाः, औपगवी इत्यादि । इस इति किम् ? देवदत्तेऽपत्यम् । अपत्य इति किम् ? भानोरयं भानवीयः, श्यामगवीयः । 'तस्येदम्' (६-३-१५९) इत्येवाणादिसिदो अपत्यविवक्षामां तदपवादबाधनार्थं वचनम् , तेन भानोरपत्यं भानवः, श्यामगवः । अत्र ‘दोरीयः' (६-३-३१) इतीयो न भवति । कम्बल उपगोः अपत्यं देवदत्तस्येत्यत्र तु असामर्थ्यान्न भवति ॥२८॥ न्या. स०-सोऽपत्ये - षष्ट्यन्तादिति उसुग्रहणस्य षष्ठ्युपलक्षणत्वात् षष्ठी लभ्यते । संख्यादिति-आदिशब्दाद्विद्यमानाविद्यमानादि, ब्राह्मणत्वादि वा। श्यामगवीय इति-श्यामा चासो गौश्च 'गोस्तत्पुरुषात् ' ७-३-१०५ बहुव्रीहिर्वा । तदपवादबाधनार्थमिति-तस्य तस्येदमित्यणोऽपवादो यो दोरीय इत्यादिस्तस्य बाधनार्थमन्यथा दुसंज्ञकादपत्यविवक्षायामपि ईय एव स्यात् । ____ असामान्न भवतीति-अयमर्थः उपगोरित्यस्य कम्बलेन संबन्धित्वान्न तत्संबन्धित्वेनापत्यं वक्तुमण् प्रत्ययः समर्थः । आद्यात् ।। ६. १. २९ ॥ अपत्ये येऽणादयःप्रत्ययास्ते आद्यात् परमप्रकृतेरेव भवन्ति । पौत्राद्यपत्यं सर्वपूर्वजानामापरमकृपतेः पारंपर्येण संबन्धादपत्यं भवति, तत्र तस्तैः संबन्धविवक्षायामनन्तरवृद्धयुवभ्योऽपि प्रत्यय: प्राप्नोतीति नियमार्थ आरम् । उपगोरपत्यमनन्तरं वृद्धं वा औपगवः, तस्याप्यौपगविः, औपगवेरप्यौपगवः, गंर्गस्यापत्यं पौत्रादि गार्ग्यः, गार्गरपि गार्यः, गाय॑स्यापि गार्ग्यः गाायणस्यापि मायः । अनन्तरादयोऽपि परमप्रकृतिरूपेणवापत्ये प्रत्ययमुत्पादयन्ति ॥२९॥॥ न्या० स० आद्यात्-परम परमप्रकृतेरेवेति गर्गादिरूपान्न गार्गिरित्यादिरूपादित्यर्थः । पौत्राद्यपत्यमिति ननु यस्यैवाङ्गजत्वेनानन्तरः संबन्धः तस्यैव तदपत्यमुच्यते, अतस्तस्मादेवापत्यप्रत्ययो युज्यते नान्यस्मादित्याशङ्का । तत्र तैस्तैरिति तत्र परम प्रकृतौ तस्तैर्गानिप्रभृतिभिरपत्यैः सह संबन्धविवक्षायामित्यर्थः । ___ नियमार्थ आरम्भ इति अयमर्थः गर्गस्यापत्यमनन्तरं गार्गिरितीजन्तात् , गर्गस्यापत्यं वृद्धं गार्ग्य इति यजन्तात् , गार्ग्यस्यापत्यं युवा गाायण इत्यायनणन्ताच्चापत्यप्रत्ययो मा भूत किन्तु या मूलप्रकृतिरूपा गर्गादिलक्षणा तस्या एवाऽपरोपि अपत्यप्रत्ययः समुत्पद्यते नान्यापत्यप्रत्ययान्तायाः, युवार्थापत्यप्रत्ययं प्रति च वृद्धार्थापत्यप्रत्ययान्तैव प्रकृतिराया वक्ष्यते, ततः
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy