________________
१६ ]
बृहद्वृत्ति-उघुन्याससंवलिते [प० १ सू० ३३-३४ इति बाह्वादयः । बहुवचनमाकृतिगणार्थम्, तेन सख्युरपत्यं साखिः । संवेशिनः सांवेशिः, उदङ्कस्य औदङ्कि, एवमौद्दालकिः, वाल्मीकिः, आरुणिः इत्यादि सिद्धम् भवति । शिवादेश्च प्राग्येऽकारान्ता बिदादयस्तेभ्य ऋष्यणं बाधित्वा उक्तादर्थादन्यत्रानेनैवेञ् । बिदादेवृद्धेऽञ् वक्ष्यते, बिदस्यापत्यमनन्तरं बैदिः, औविः, गर्गादेयं गागिः, वारिसः, कुजादेयि यः, कौनिः , ब्राधिनः, अश्वादेरायन, आश्विः, आकिः, नडादिभ्य आयनण् नाडिः, मोजिः । अनकारान्तेभ्यस्त्वणेव औपमन्यवः, जामदग्नः, भास्मः सौमनसः, लैंगवः, शारद्वतः । इतः प्रभृति गोत्र इत्यधिकारात् गोत्रे संभवति ततोऽन्यत्र प्रतिषेध ।। ३२ ।।
न्या० स० बाला-खरनादिनिति गणपाठात् 'पूर्वपदस्था' २-३-६४ इति न णत्वम् ।
उक्तार्थादन्यत्रेति कोऽर्थः वृद्धार्थादन्यत्राकारान्तानां विदादीनां 'ऋषिवृष्ण्यन्धक' ६-१-६१ इत्यनेनाण् स्यात् , सोऽनेन बाध्यते ।
भास्म इति भस्मनोऽपत्यं ऋष्यणि 'अणि' इति प्रतिषेधे प्राप्ते 'अवर्मणो मनोऽपत्ये ७-४-४९ इत्यनेनान्त्यस्वरादिलोपः ।
ततोऽन्यत्रेति अयमर्थः, यत्र गोत्रमगोत्रं घ संभवति तत्र ततो गोत्रादन्यत्रेञ् प्रतिषेधः, यत्र गोत्रं न संभवत्येव तत्रागोत्रेऽपीञ् । वमेणोऽचक्रात् ॥ ६. १. ३३॥
चक्रशब्दवजितात्परो यो वर्मन्शब्दस्तदन्ताद रत्येऽर्थे इञ् प्रत्ययो भवति । इन्द्रवर्मणोऽपत्यमैन्द्रवमिः, अचक्रादिति किम् ? चाक्रवर्मणः ॥३॥
न्या० स० वर्म- चाक्रवर्मण इति चक्रं वर्म यस्य चक्रवर्मा अथवा चक्रमेनं वृषीष्ट 'तिक्कृतो नाम्नि' ५-१-७१ मन् , 'नोपदस्य' ७-४-६१ इत्यनेनान्तलोपे प्राप्ते 'अणि' ५-४-५२ इति प्रतिषेधः, 'अवर्मणो मनो' ७-४-५९ इत्यनेन भविष्यतीति च न वाच्यं, तत्र वर्मन्वर्जनात् ।
अजादिभ्यो धेनोः ॥६. १.३४॥ ___ अजादिभ्यः परो यो धेनुशब्दस्तदन्तादपत्येऽर्थे इञ् प्रत्ययो भवति । भाजधेनविः, बाष्कधेनविः । अजादयः प्रयोगतोऽनुसर्तव्याः ।। ३४ ॥
न्या० स० मजा-आजधेनविरिति अजा चासो धेनुश्चेति कार्य, 'पोटायुवति' ३-१-१११ इति समासः, न त्वजा धेनुर्यस्येति तदा 'स्वाङ्गान्डाः' ३-२-५६ इति पुंवन्निषेद्यः स्यात् । ब्राह्मणादा ॥६१३५॥
ब्राह्मणशब्दात्परो यो धेनशब्दस्तदन्तादपत्येऽर्थे इञ् वा भवति। ब्राह्मणधेनविः ब्राह्मणधेनवः ॥ ३५॥ भूयःसंभूयोम्भोमितौजसः स्लुक् च ॥ ६ १ । ३६ ॥ भूयस्, संभूयस्, अम्भस्, अमितीजस् इत्येतेभ्योऽपत्येऽर्थे इञ् प्रत्ययो