SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ [ पाद. ४. सू. ७४-७५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३७९ न्या० स० भृशाभीक्ष्ण्या०-आभीक्ष्ण्यं विच्छेदेनापि स्थित्वा स्थित्वा क्रियाकरणे संभवति, अविच्छेदश्च निरन्तरक्रियाकरणे संभवति इत्यनयोर्भेदः । क्रियाविशेषणस्येति यदि क्रियापदमेवात्र संबध्यते तर्हि पुनः पुनः पचतीत्यत्र कथं क्रियाविशेषणस्य द्विवचनम् ? इत्याशका, अस्तमयतीति 'इंण्क् गतौ ' अयनमयः अस्तमयोऽस्तमयः, स इवाचरति क्विपि रूपमिदं इं दुं इत्यस्य वा। द्विवचनमिति यदा तु आभीक्ष्ण्ये यक् तदा भृशार्थत्यावयवक्रियासाकल्यरूपस्य मध्यपातित्वेन गतार्थत्वाद् विचारो न कृतः। नानावधारणे ॥ ७. ४. ७४ ॥ नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम् । तस्मिन्यच्छब्दरूपं वर्तते तद्विरुच्यते, योगविभागात्प्राक्तमबादेरिति नानुवर्तते । अस्मात्कार्षापणादिहभवद्भ्यां माष माष देहि, प्रत्येकं माषमात्रं देहि नाधिकमित्यर्थः । द्वौ द्वौ देहि, त्रीन् त्रीन् देहि, एषु कार्षापणसंबन्धिनो माषा न साकल्येन दित्सिताः कि तहि प्रत्येकं माषमात्रमेव द्वावेव त्रय एव वेति न वीप्सास्ति । नानाग्रहणं किम् अस्मात्कार्षापणादिहभवद्धभ्यां माषदेहि । एकमेवेत्यर्थः। अवधारण इति किम् । अस्मात्कार्षापणादिहभवद्भ्यां माषं द्वौ त्रीन्वा देहि ।।७४।। ___ न्या० स० नाना०-भूतानामित्यादि नानाशब्दो नानाभूते माषादौ वर्तते, सस्यावधारणमेकत्वादि नानावधारणमिति न वीप्साऽस्तीति, इह सत्यपि नानावधारणे वीप्सास्त्येव, द्वावपि हि तो माषौ प्रत्येकं दानेन वीप्स्येते, ततो वीप्सायामेव द्विवचनं भविष्यति किमर्थमिदम् ? इत्याह-एषु कार्षापणसंबन्धिन इत्यादि वीप्सा हि द्विरुच्यमानस्य यावन्तोऽर्थभेदास्तावतां प्रत्येक क्रियादिना व्याप्तुमिच्छ। सा न द्वयोस्त्रयाणां वा संबन्धे भवति, अपि तु सर्वेषामेव, अत्र च कार्षापणो नामानेकमाषसमुदायरूपस्तत्र तत्संबन्धिनो माषाः सर्व एव न दातुमिष्टाः किन्तु द्वावेव, वीप्सायां तु सर्व ददात्येव । आधिक्यानुपूष्ये ॥७. ४. ७५ ।। आधिक्यं प्रकर्षः, आनुपूयं क्रमानुल्लङ्घनम् । एतयोर्यच्छब्दरूपं वर्तते तद्विरुच्यते । आधिक्ये, नमो नमः, अधिकं नम इत्यर्थः । कन्या दर्शनीया कन्या दर्शनीया, अहोदर्शनीया अहोदर्शनीया, मह्य रोचते मह्यं रोचते, एष तवाजलि रेष तवाजलिः, मह्य रोचतेतराम् मह्यं रोचतेतराम, अत्र प्रागातिशायिकः पश्चाद्वित्वम्, आनुपूर्व्य, मूले मूले स्थूलाः, अग्रे भग्रे सूक्ष्माः, ज्येष्ठं ज्येष्ठमनुप्रवेशय, कनिष्ठं कनिष्ठमासय, मूलाद्यानपूपेणैषां स्थौल्पादय इत्यर्थः । अग्रमूलमध्यानि त्रयो भागाः तत्रैकमेव मुख्यमग्रं मूलं च । अन्येषां तु भागानामपेक्षाकृतोऽग्रमूलव्यपदेशः । अधःसन्निविष्टमपेक्ष्याग्र
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy