SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ३७८ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ७३ ) वाक्यं वा वर्तते न पदावयव इति नासौ असद्विर्वा भवति । तच्च पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापरिनिष्पन्नमिति कृतेषु यत्वादिकार्येषु तदसकृद्विर्वा भवति नाकृतेषु । तेन द्रोग्धा द्रोग्धा, द्रोढा द्रोढेत्येव भवति न तु द्रोग्धा द्रोढा द्रोढा द्रोग्धा । एवं माषवापाणि माषवापाणि, मातुःष्वसा मातुःष्वसा, हीणों हीणः । कृतद्विर्वचनानामपि रूपार्थयोरभेदेन स्थानिवद्भावेन चैकपदत्वात् कौतस्कुतः पौनःपुन्यम् पौनपुनिकः इत्यादिषु तद्धितः सिद्धो भवति ।७२। न्या० स० अस–असकृद्विति अनेनासकृत् वक्ष्यमाणैस्तु द्विः। कौतस्कुत इति कस्कादौ कौतस्कुतेति पाठादागतेऽर्थे अणेव, न तु 'क्वेहामात्र' ६-३-१६ इति त्यच् । भृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः ॥ ७. ४. ७३ ॥ क्रियायाः साकल्यमवयव क्रियाणां कात्न्यं भृशार्थः । पौनःपुन्यमा-भीक्ष्ण्यम्, सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः । एतेषु द्योत्येषु यत्पदं वाक्यं वा वर्तते तत्तमबादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते। भृशे, लुनीहि लुनीहीत्येवायं लुनाति, अधोध्वाधीष्वेत्येवायमधीते, आभीक्ष्ण्ये, भोज भोज व्रजति, भुक्त्वा भुक्त्वा व जति अविच्छेदे, पचति पचति, अधोते अधोते, ब्रह्मचर्य चरति चरति, प्रपचति प्रपचति, सत्करोति सत्करोति, अलंकरोति अलंकरोति । भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसाय त् भृशादियोगे द्विर्वचनं भवति । यथा पुनःपुनः पचति, भूयो भूयः पठति, वारंवार भुङ्क्ते, मुहुर्मुहुः पिबति, शनैः शनैर्गच्छति, मन्दं मन्द तुदति, स्तोकं स्तोक चलति, पृथक्पृथगभिधत्ते । यदा तु क्रियारूपता न विवक्ष्यते तदा ' नवा गुणः सदशे रित् ' (७-४-८६) इति सादृश्ये द्विर्वचनं भवति । मन्द मन्दं तुदति, स्तोकं स्तोकम् अस्तमयति इति । एतेष्विति किम् लुनीहि, भुक्त्वा व्रजति, पचति । भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये द्विर्वचनम् पापच्यते पापच्यत इति । यदा तु तत्प्रतिपादनाय पञ्चमी विधीयते तदा तस्या द्विर्वचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्य क्त्वाणमोरिवेति द्विर्वचनमपि भवति पापच्यस्व पापच्यस्वेति। प्राक्तमबादेरिति किम् ? पचतिपचतितमाम्, पवतिपचतितराम् । अत्र तमबादेरातिशायिकात्पूर्वमेव द्विवचनम् पश्चात्तमवादिः, अन्यथा ह्यनियमः स्यात् ।।७३॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy