SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३८० ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू. ७६-७७ ] व्यपदेशः, उपरिसंनिविष्टमपेक्ष्य मूलव्यपदेशः । न चैकरूपं भागानां स्थौल्यं सौम्यं वा किं तर्हि यथामूलमुपचीयते स्थौल्यम् यथाग्रं च सौम्योपचय इति वीप्सा नास्ति, एवं ज्येष्ठत्वकनिष्ठत्वयोरपि आपेक्षिकत्वाद्वीप्सा नास्तीति वचनम् ।।७५॥ न्या० स० आधि०-अग्रेअग्रे इति विरामविवक्षणात् 'न सन्धिः' १-३-५२ इति संधिनिषेधः। वीप्सा नास्तीति साकन्येन व्याप्त्यभावात् । आपेक्षिकत्वादिति साकल्यं नास्ति, न हि ये वृद्धास्ते वृद्धा एव, ये च कनिष्ठास्ते कनिष्ठा एवेति ।। डतरडतमौ समानां स्त्रीभावप्रश्ने ।। ७. ४. ७६ ॥ समानां केनचिद्गुणेन तुल्यतया संप्रधारितानां स्त्रीलिङ्गस्य भावस्य प्रश्ने यद्वर्तते डतरान्तं डतमान्तं च शब्दरूपं तद्विरुच्यते, उभाविमावाढयो कतरा कतरा अनयोराढयता कि देवकृता उत पौरुष कृतेत्यर्थः, कतमा कतमा अनयोराढयता किं साधनसंबन्धकृता उतान्य संबन्धकृता आहोस्विदुभयसंबन्धकृतेत्यर्थः । एवं सर्व इमे आढघाः कतरा कतरा एषामाढयता। कतमा कतमा एषामाढथता। सर्व इमे आढथाः यतरा यतरा एषां विभूतिः ततस ततरा कथ्यताम् । यतमा यतमा एषां संपत्, ततमा ततमा कथ्यताम् । डतरडतमाविति किम् ? उभाविमावाढघौ कानयोराढयता। समानामिति किम ? आढयोऽयं कतरास्याढयता कतमास्याढ्यता। स्रोग्रहणं किम् ? उभाविमावाढयौ कतरदनयोराढयत्वम् । कतमोऽनयोविभवः। भावग्रहणं किम् ? उभाविमौ लक्ष्मीवन्तौ कतरानयोर्लक्ष्मीः। कतमानयोर्लक्ष्मीः । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः, इयं स्त्री भवति न भाव इति । प्रश्न इति किम् ? उभाविमावाढयौ यतरानयोराढयता ततरा भ्रूयताम् । केचिड्डतरडतमाभ्यां स्त्रीलिङ्गाच्चान्यत्रापीच्छन्ति । उभाविमावाढयौ कीदृशी कीदृशी अनयोराढयता । कतरत्कतरदनयोराढयत्वम्, कतमः कतमोऽनयोविभवः। कतरानयौराढयतेत्यादी प्राप्ते स्वार्थिकं द्विर्वचनम् ॥७६॥ पूर्वप्रथमावन्यतोऽतिशये ॥ ७. ४. ७७ ॥ पूर्वशब्दः प्रथमशब्दश्चान्यतोऽतिशये तदर्थस्य प्रकर्षे द्योत्ये द्विरुच्यते, आतिशायिकापवाद: । पूर्व पूर्व पुष्यन्ति, प्रथमं प्रथमं पच्यन्ते, अन्येभ्यः पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्त इत्यर्थः । अन्यत इति किम् ? पूर्वतरं पष्यन्ति, प्रथमतरं पच्यन्ते । अत्र स्वव्यापारापेक्षातिशयो गम्यते न तावदिसे
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy