________________
३७४ ]
बृहवृत्ति-लघुन्याससँवलिते [पाद. ४ सू. ५७-६२ ॥ ब्रह्मणः ॥ ७. ४. ५७ ।। ___ब्रह्मन्शब्दस्यानपत्येऽणि परेऽन्त्यस्वरादेर्लुम् भवति । ब्रह्मण इदं ब्राह्ममस्त्रम्, ब्राह्मो मन्त्रः, योगविभाग उत्तरार्थः ।५७। जातौ ॥ ७. ४. ५८ ॥
ब्रह्मन्शब्दस्य जातावभिधेयायामनपत्ये एवाणि परेऽन्त्यस्वरादेलुग भवति । ब्रह्मण इयं ब्राह्मो ओषधिः, पूर्वेण सिद्धे जातावनपत्ये एवेति नियसार्थं वचनम्, तेनोत्तरसूत्रेणापत्ये लुग् न भवति । ब्रह्मणोऽप्रत्यं ब्राह्मणः, जाताविति किम् ? ब्रह्मणोऽपत्यं ब्राह्मो नारदः ।५८।।
न्या. स. जातो०-नियमार्थमिति व्यक्तिवाचिनस्तु ब्रह्मणोऽपत्येऽणि ब्राह्मः इति भवत्युत्तरेण लोपात् , सूत्राकरणे तु ब्राह्मण इति. न स्यात् । अवर्मणो मनोऽपत्ये ।। ७. ४. ५९ ।।
वर्मनशब्दवजितस्य मन्नन्तस्यापत्यार्थविहितेऽणि परेऽन्त्यस्वरादेल ग भवति । सुषाम्नोऽपत्यं सौषामः, माद्रसामः, भाद्रसामः । अवर्मणं इति किम् ? वक्रवर्मणोऽपत्यं चाक्रवर्मणः । मन इति किम् ? सुत्वनोऽपत्यं सौत्वनः, याज्वनः । अपत्य इति किम् ? चर्मणा छन्नश्चार्मणो रथः ।५९।
न्या० स० अवर्म.-चाक्रवर्मण इति अत्र व्यावृत्तौ सर्वत्र 'नोपदस्य.' ७-४-६१ इत्यनेनापि नान्त्यस्वरादिलोपः 'अणि' ७-४-५२ इत्यनेन निषेधात् । हितनानो वा ॥ ७. ४. ६०॥
हितनामशब्दस्यापत्येऽणि परेऽन्त्यस्वरादेलग् भवति वा। हितनाम्नो. ऽपत्यं हैतनामन:, हैतनामः । अपत्य इति किम् ? हैतनामनः ।६०। नोऽपदस्य तद्धिते ॥ ७. ४. ६१ ॥
नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेल ग भवति । मेधावि-- नोऽपत्यं मैधावः, मायावः, औडुलोमिः, शारलोमिः, आम्निमिः। द्वयोरह्रोः समाहारो व्यहः, व्यहः । हस्तिनां समूहो हास्तिकम् । न इति किम् ? वैद्युत तेजः । अपदस्येति किम ? मेधाविरूप्यम् मेधाविमयम् । तद्धित इति किम् ? हस्तिना, हस्तिने ।६।। कलापिकुथुमितैतलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्म
चारिपीठसर्पिसूकरसमसुपर्वणः ।। ७. ४. ६२ ॥ कलाप्यादीनां नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलम