SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ । पाद. ४. सू. ६३-६५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३७५ भवति । अत्र ये इन्नन्तास्तेषामनपत्य इति शिखण्डिपीठसपिणोरपत्येऽपि * संयोगादिनः' (७-४-५३) इति सूकरसमसुपर्वणोस्त्वणि (७-४-५२) इति निषेधे प्राप्ते लगवचनम् । कलापिना प्रोक्त वेदमधीयते कालापा:, कौथमाः । तैतली, जाजली, लाङ्गली, चाचार्याः । तत्कृतो ग्रन्थोऽप्युपचारात् तच्छब्देनोच्यते । तमधीयते तत्तलाः, जाजलाः, लाङ्गलाः, शिखण्डिन इमेऽपत्यानि चा शैखण्डाः, शिलालिनः शैलालाः, सब्रह्मचारिणः साब्रह्मचारा, पीठसपिणः पैठसर्पाः, सूकरसमनः सौकरसद्याः, सुपर्वणः सौपर्वाः ।६२। वाश्मनो विकारे । ७. ४. ६३ ।। अश्मनशब्दस्यापदस्य विकारे विहिते तद्धिते परेऽन्त्यस्वरादेल ग्वा भवति । अश्मनो विकारः आश्मः, आश्मनो बा । विकार इति किम् ? आश्मनो मन्त्रः, नित्यमिच्छन्त्येके ।६३१ चर्मशुनः कोशसंकोचे ॥७. ४. ६४ ।। चर्मन्, श्वन इत्येतयोरपदभूतयोर्यथासंख्यं कोशे संकोचे चार्थे तद्धिते परेऽन्त्यस्वरादेलुग भवति । चर्मणो विकार: कोशश्चार्मः । कोशादन्यत्र चार्मणः । शुनोऽयं शौव: संकोचः, संकोचादन्यत्र शौवनः । कथं शुनो विकारोऽवयवो वा शौवं मासम् शौवं पुच्छमिति ? हैमादित्वादबि 'नोऽपदस्य' -(७-४-६१) इत्येव भविष्यति ।६४। प्रायोऽव्ययस्य ॥ ७. ४. ६५ ॥ . अव्ययस्यापदसंज्ञकस्य तद्धिते परेऽन्स्यस्वरादेः प्रायो लग भवति । स्वर्भवः सौवः, बहिर्जातो बाह्यः, बाहीकः, सायंप्रातिकः, पौनापुनिकः । “ वर्षाकालेभ्यः' (६-३-७९) इतीकण् । अनभिधानादव्ययलक्षणस्तनट न भवति । पौनःपुन्यम्, उपरिष्टादागतः औपरिष्टः, परत आगतः पारतः, एकैकश्यम् । प्रायोग्रहणं प्रयोगानुसरणार्थम्, तेनेह न भवति । आरातीयः, शाश्वतिकः, शाश्वतः, पार्थक्यम् । अपदस्येत्येव । कंयुः, शंयुः, अहंयुः ।६५। न्या० स० प्रायो०-सायंप्रातिक इत्यादि अथाव्ययसमुदायोऽव्ययग्रहणेन गृह्यते इति 'सायंचिरम्', ६-३-८८ इति सायंप्रातरादिभ्यस्तनट् कस्मान्न भवति ? इत्याह-अनभिधानादियादि, एकैकश्यमिति एकमेकं ददाति, एकशब्दस्यामन्तस्य वीप्सायां द्वित्वं 'प्लुपचादावेक' ७-४-८१ इत्यमो लुपि बह्वल्पार्थात् ' ७-३-१५० इति कारके शस् , एकैकशो भावः दयण।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy