________________
। पाद ४. सू. ५२-५६] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३७३ अणि ॥ ७. ४. ५२ ॥
अन् इत्येतदन्तस्याणि तद्धिते परेऽन्त्यस्वरादेलग्न भवति । सुत्वनोऽपत्यं सौत्वनः, याज्वनः, साम देवतास्य सामनः, वैमनः, संदिष्टं कर्म कार्मणम्, 'पर्वणि भवः पार्वणः अणीति किम् ? कर्म शीलमस्य कार्मः, छन्त्रादित्वादनु । कर्मणे शक्तं कार्मुकम्, 'योगकर्मभ्यां योकजी' (६-४-९५) इत्युक, योगविभाग उत्तरार्थः ॥५२॥ संयोगादिनः ॥ ७. ४. ५३ ॥
संयोगात्परो य इन् तदन्तस्याणि परेऽन्त्यस्वरादेलुग न भवति । शङ्गिनोऽपत्यं शाङखिनः, चाक्रिणः, वाविणः, स्राग्विणः, माद्रिणः, भाद्रिणः । संयोगादिति किम् ? मेधाविनोऽपत्यं मैधावः, मायावः । अणीत्येव ? प्राकारमदिनोऽपत्यं प्राकारमदिः, वाह्वादित्वादि । अनपत्ये उत्तरेण सिद्धत्वादपत्यार्थोऽयमारम्भः ।५३।
गाथिविदथिकेशिपणिगणिनः ॥ ७. ४. ५४ ॥ - गाथिन्, बिदथिन्, केशिन्, पणिन्, गणिन् इत्येतेषामिन्नन्तानामणि परेऽन्त्यस्वरादेलुग्न भवति । गाथिनोऽपत्यं गाथिनः, वैदथिनः, कैशिनः, पाणिनः, गाणिनः ।५४१ अनपत्ये ॥ ७. ४. ५५ ॥
इन्नन्तस्यापत्यादन्यत्रार्थे योऽण् तस्मिन् परेऽन्त्यस्वरादेलुग् न भवति । सांकृटिनं वर्तते, सांकोटिनम्, सांराविणम्, सामाजिनम् गभिणीनां समहो गाभिणम् । भिक्षादित्वादण् । गुणिन इदं गौणिनम्, स्त्रग्विण इदं वाग्विणम् अनपत्ये इति किम् ? मेधाविनोऽपत्यं मैधावः । अणीत्येव ? गभिणां समहो गार्भम्, दण्डिनां दाण्डम्, चक्रिणां चाक्रम् । 'वादिभ्योऽञ्' (६-२-२६ ) इत्यज ।५५॥
न्या० स० अन०-गामिणमिति 'जातिश्च' ३-२-५१ झति पुंवत , अन्यथा 'स्वरस्य' --४-११० इति स्थानित्वात् प्राप्तिरेव न । उक्ष्णो लुक ॥ ७. ४. ५६ ॥
उक्षनशब्दस्यानपत्येऽणि परेऽन्त्यस्वरादेलुंग भवति । उक्ष्ण इदमौक्षं पदम् । अनपत्य इत्येव ? उक्ष्णोऽपत्यमौक्ष्णः ।५६।