SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ३७२ ] बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ४६-५१ ] हास्तिनायनः, नडाद्यायनण् । आयन इति किम् ? दण्डिनां समूहो दाण्डम्, हास्तिकम् ।४५। ____ न्या० स० दण्डि०-दाण्डम, हास्तिकम्-'श्वादिभ्योऽञ्' ६-२-२६, ‘कवचि' ६-२-१४ इतीकण, 'नोपदस्य' ७-४-६१ इत्यन्तलोपः। वाशिन आयनो ॥७. ४. ४६ ।। __वाशिन्शब्दस्यायनिप्रत्यये परेऽन्त्यस्वरादेलुंग न भवति । वाशिनोऽपत्यं वाशिनायनिः । 'अवृद्धाहोर्नवा' (६-१-११०) इत्यायनिञ् ।४६। एये जिह्माशिनः ॥ ७. ४.४७ ॥ जिह्माशिनशब्दस्य एये प्रत्यये परेऽन्त्यस्वरादेलुग न भवति । जिह्माशिनोऽपत्यं जैह्माशिनेयः, शुभ्रादित्वादेयण् ।४७। ईनेऽध्वात्मनोः ॥ ७. ४. ४८॥ अध्वन आत्मन् इत्येतयोरीनप्रत्यये परेऽन्त्यस्वरादेलुंग न भवति । अध्वानमलंगामी अध्वनीनः, 'अध्वानं येनौ' (७-१-१०३) इतीनः । आत्मने हित आत्मनीनः, 'भोगोत्तरपदात्मभ्यामीनः ' (७-१-४०) इतीनः । ईन इति किम् ? प्राध्वम्, अध्यात्मम् ॥४८॥ इकण्यथर्वणः ॥ ७. ४. ४९ ॥ अथर्वनशब्दस्येकणि प्रत्यये परेऽन्त्यस्वरादेर्लुग् न भवति अथर्वाणं वेत्त्यधीते वा आथर्वणिकः, न्यायादित्वादिकण् ।४९। यूनोऽके ॥ ७. ४. ५०॥ युवनशब्दस्याके प्रत्ययेपरेऽन्त्यस्वरादेलुग् न भवति । यूनो भावः यौवनिका, चौरादित्वादकञ् । अक इति किम् ? युवा प्रयोजनमस्य यौविकम् ॥५०। न्या स० यूनो०-यौवनिकेति चौराद्यमनोज्ञाद्यकबिति स्त्रीक्लीबत्वम् । अनोष्ट्ये ये ॥ ७. ४. ५१ ॥ __ अन् इत्येतदन्तस्य ट्यजिते ये प्रत्यये परेऽन्त्यस्वरादेलग्न भवति । सामनि साधुः सामन्यः, एवं वेमन्यः, मूर्धनि भवः मूर्धन्यः, तक्ष्णोऽपत्यं ताक्षण्यः, कुर्वादित्वात् ज्यः । अटच इति वचनात् सानुबन्धेऽपि प्रतिषेधः । अन इति किम् ? छत्रिषु साधुः छत्त्र्यः, अटथ इति किम् ? राज्ञो भावः कर्म वा राज्यम्, दौरात्म्यम् । य इति किम् । परमराजः, द्विमधः ५१॥
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy