SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्री सिद्ध हेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः [ ३७१ [ पाद. ४. सू. ४३-४५ ] माभूत् केचित्तु स्थूलदूरयूनां करोत्यर्थे णौ नेच्छन्ति । स्थूलं करोति स्थूलयति, दूरयति, युवति ॥ ४२ ॥ न्या० स० स्थूल० - अन्तस्थादेरिति किमर्थमिति - अन्त्यस्वरस्य तावत् त्रन्त्यस्वरादेः ' ७-४-४३ इत्यनेन लुपि सत्यामन्तस्थामात्रमेवावशिष्यते, ततश्चात्रादिग्रहणं निरर्थकं किंतु अन्तस्थादेरित्यनीयान्तस्थाया इति कर्तुमुचितमिति प्रश्नाशयः । दकाराणां माभूदिति सर्वमुखस्थानमवर्णमित्येकदेशेन प्रत्यासन्त्या सकारदकारयोरकारस्य त्वत्वं स्यात् । त्रन्त्यस्वरादेः ॥ ७. ४. ४३ ॥ तृप्रत्ययस्यान्त्यस्वर।देश्वावयवस्येमनि णीष्ठेयसूषु च परेषु लुग्भवति । कर्तृ मन्तमाचष्टे करयति, करिष्ठः, करीयान् कर्तारमाचष्टे करयति । मातति भ्रातयतीत्यत्र अनर्थकत्वात् तृशब्दस्य न भवति । पटिमा, पटयति, पटिष्ठः, पटीयान् । लघिमा, लघयति, लघिष्ठः, लघीयान् । विमनसो भावो विमनिमा, सन्मनसो भावः सन्मानिमा, दृढादित्वादिमन् । विन्मतोलु पि अनेकस्वरस्यान्त्यस्वरादेलु' चं च विकल्पेनेच्छन्त्येके, लुगभावपक्षे णौ गुणं चेच्छन्ति ।। पयस्विनमाचष्टे पययति, पयस्यति, पयिष्ठः, पयसिष्ठः, पयोयान्, पयसीयान् । वसुमन्तमाचष्टे वसयति, वसवयति, वसिष्ठः, वसविष्ठः, वसीयान्, वसवीयान् ।४३। न्या० स० त्रन्त्य॰—अनर्थकत्वादिति अनर्थकत्वं चास्याव्युत्पन्नत्वात्, तृप्रत्ययश्च वर्णानुपूर्वी विज्ञानार्थः । नैकस्वरस्य ।। ७.४. ४४ ॥ एकस्वरस्य शब्दरूपस्य योऽन्त्यस्वरादिरवयवस्तस्येमनि णीष्ठेयसुषु च परेषु लुग्न भवति । स्रग्विणमाचष्टे स्रजयति, स्रजिष्ठः, स्रजीयान् । स्रुग्वन्तमाचष्टे खचयति, स्रुचिष्ठः, स्रुचीयान् । एकस्वरस्येति किम् ? वसुमन्तमाचष्टे वसयति, वसिष्ठः, वसीयान् । इन चेत्येव । अस्यापत्यम् इः । ज्ञो देवतास्य ज्ञः, श्रिये हितः श्रीयः, योगविभागात् ' अवर्णवर्णस्य' ( ७-४-६८) इति लोपस्यापि प्रतिषधः । श्रेष्ठः, श्रेयान् ।४.४। न्या० स० नैक० – योगविभागादिति अन्यथा त्रन्त्यस्वरादेरनेकस्वरस्येत्येव कुर्यात् । fuseस्तिनोरायने ।। ७. ४. ४५ । दण्डिन् हस्तिन् इत्येतयोरायने प्रत्ययेऽन्त्यस्वरादेर्लुग् न भवति । ' नोपदस्य -' (७-४-६१ ) इति प्राप्तो प्रतिषेधः । दण्डिनोऽपत्यं दाण्डिनायनः,
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy