________________
३७० ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ३ सू० ४०-४२ ) ऋजीयान, कृष्णिमा, कृष्णयति, कृष्णिष्ठः, कृष्णीयान । अनचीयान स्वचीयान् । ऋत इति किम् ? सर्वस्य मा भूत् ।३९।
न्या० स० पृथु०-अनुचीयानित्यादि न विद्यन्ते ऋचोऽस्य 'नञ् बहोः' ७-३-१३५ इत्यप, शोभना ऋग यस्य स्वच्, आभ्यामप्यगुणाङ्गत्वेऽपि ‘विन्मतोः' ७-४-३२ इति ज्ञापकस्य सर्वोद्विष्टत्वादीयस् । बहोर्णीष्ठे भूय् ॥ ७. ४. ४० ॥
बहशब्दस्य णीष्ठयोः परयोर्भूय इत्ययमादेशो भवति, भूभावापवादः । भूययति, भूयिष्ठः । बहोराख्यानं भूयनम् । णौ केचिद्विकल्पमाहुः। भूययति, भूयमम् । पक्षे बहयति, बहनम् । बहोर्णो भाविति कश्चित् । भावयति ।४०।
न्या० स० बहो०- बहोराख्यानमिति णिचोऽनटश्चैकमेवेदं वाक्यं, यद् वा बहुमाचष्टे णिच् भूय्यत इत्यनद । भूलकः चेवर्णस्य ।। ७. ४. ४१ ।।
बहुशब्दस्य ईयसाविमनि च परे भू इत्ययमादेशो भवति अनयोश्चेवर्णस्य लुग्भवति । भूयान्, भूयांसौ, भूयांसः, भूमा। भू ऊ इति ऊकारप्रश्लेषादवादेशो न भवति । इवर्णस्येति किम् ? सर्वस्य माभूत् ।४१।
न्या० स० भूलू ०–'प्रियस्थिर' ७-४-३८ इत्यतः सूत्रादिमणि इष्ठईयसवश्चत्वारोऽनुवर्तन्ते तेषु च णीष्ठयोः पूर्वसूत्राघातत्वात् पारिशेषादिमनीयसोरेवायं विधिरित्याहईयसाविमनि चेति । ऊकारप्रश्लेषादिति न च भू इत्यादेशविधानादत्र न भविष्यति इति यतो भमेत्यत्र पदत्वादपदे उक्तः 'अस्वयंभुवेषु' ७-४-७० इति अव् न भविष्यतीति, अत्र भू आदेशस्य चरितार्थत्वात् , भूयानित्यादावव् स्यादिति भूश्चासावूश्चेति प्रश्लेषव्याख्यानम् । स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः ।।७. ४. ४२ ।।
स्थलादीनां यथासंभवमिमनि णीष्ठेयसुषु च परेष्वन्तस्थादेरवयवस्य लग नामिनश्च गुणो भवति । स्थूल-स्थवयति, स्थविष्ठः, स्थवीयान् । दूरदवयति, दविष्ठः, दवीयान् । युवन्-यवयति, यविष्ठः, यवीयान् । हूस्व-हसिमा, हसयति, इसिष्ठः, इसीयान् । क्षिप्र-क्षेपिमा, क्षेपयति, क्षेपिष्ठः, क्षेपीयान् । भद्र-क्षोदिमा, क्षोदयति, क्षोदिष्ठः, क्षोदीयान् । हूस्वादिभ्यः पृथ्वादित्वादिमन् । उत्तरेणान्त्यस्वरस्यानेनार्थादन्तस्थाया लोपे सिद्धे अन्तस्थादेरिति किमर्थम् ? येन नाप्राप्तिन्यायनान्त्यस्वरादिलोपं बाधित्वानेनान्तस्थाया एव लोपो मा भदित्येवमर्थम् । नामिन इति किम् ? इस्वक्षिप्रक्षुद्राणां सकारपकारदकाराणां