________________
३६६ ]
बृहवृत्ति-लघुन्याससंलिते [पाद. ३ सू० २८-२९ ) सार्ववैद्यमिति सर्वे वेदाः सर्वा विद्या वा भेषजादिभ्यष्ट्रयणि 'अवर्णेवर्णस्य ' ६-४-६८, यदा विद्या तदा 'व्यञ्जनात् पञ्चम' १-३-४७ इति यस्य लुक् ।
राजपुरुषार्याणरिति अत्र 'अवृद्धात्' ६-१-११० इत्यायनि । देवतानामात्वादौ ॥ ७. ४. २८॥
देवतार्थानां शब्दानामावादी विषये णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेन्वादेः स्वरस्य वृद्धिर्भवति । अग्निश्च विष्णश्च देवता अस्य आग्नावैष्णवं सूक्तम्, ऐन्द्रापोष्णं हविः, आग्निमारुतं कर्म, आग्निवारुणीमनड्वाहोमालभेत । आत्वादाविति किम् ? स्कन्दविशाखयोरिदं स्कन्दविशाखम्, ब्राह्मप्रजापत्यम् । 'वेदसहश्रुतावायुदेवतानाम्' (३-२-४१). इत्यत आरभ्य ' उषासोषसः' (३-२-४६) इति यावदात्वादयः ।२८॥
न्या. स. देवता०-विशाखः स्कन्दमिजम् । ब्राह्मप्रजापत्यमिति अत्र पत्यवयवयोगात् प्रजाप्रतिशब्दोऽपि पतिरिति 'अनिदम्य' ६-१-१५ इति व्यः, भावे 'पतिराजन्त' ७-१-६० इति दयण वा।
आतो नेन्द्रवरुणस्य ॥७. ४. २९ ॥
आकारान्तात्पूर्वपदात्परस्य इन्द्रशब्दस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वृद्धिनं भवति । अग्निश्च इन्द्रश्च अग्नेन्द्रो, तो देवता अस्य भाग्नेन्द्रम् सूक्तम्, सौमेन्द्रं हविः, ऐन्द्रावरुणम्, मैत्रावरुणम् । आत इति किम् । आग्निवारुणम् । उत्तरपदस्येत्येव ? ऐन्द्राग्नम् एकादशकपालं पुरोडाशं निर्वपेत् । नन चेन्द्रशब्दस्य तो स्वरौ तत्राद्यः संधिकार्येण हियतेऽपरो 'ऽवर्णवर्णस्य' (७-४-६८) इत्यतोऽस्वर एवेन्द्रशम्दस्तस्य कि वृद्धिप्रतिषेधेन ? सत्यम्, किन्त्वनेनतज्ज्ञाप्यते । बहिरङ्गमपि पूर्व पूर्वोत्तरपयोः कार्य भवति पश्चात्सधिकार्यम, तेन पूर्वेषुकामशम इत्यादि सिद्धं भवति ।२९।
या० स० आतो. आग्नेन्द्र सूक्तमिति नन्वग्निश्चेन्द्रश्याग्नेन्द्रौ तौ देवते अस्येति विग्रहे आकारो न प्राप्नोति, यतः अन्तरङ्गानपि विधीन बहिरगापि लुप् बाधते इति इः कथं न स्यान् यथा आग्निवारुणमिति व्यावृत्त्युदाहरणे, अथ सूत्रसामर्थ्यादाकारो भविष्यतीति इति चेत्, न, सूत्रमन्यत्रापि चरितार्थ यथा सौमेन्द्रं हविरिति, अथ 'इवृद्धिमति' ३-२-४३ इति इ: प्राप्नोति, न यतोऽग्निशब्दस्य प्रत्ययादि ईषोम' ३-२-४२ इति सूत्रादग्नेरित्यनुवृत्तेः!
उच्यते, 'आतो नेन्द्र' ७-४-२९ इति सूत्रं व्यक्ती प्रावर्त्तिष्ट तत एतत्सूत्रादाकारो भवस्येव ।
आग्निवारुणमिति अग्निश्च वरुणश्च देवताऽस्येति विग्रहेऽणि सति 'ऐकाध्यें। ३-२-८ इत्यनेन विभक्तिलोपः 'ई: पोमवरुणेऽग्नेः' ३-२-४२ इत्यन्तरगामीत्वं च ततो अन्तरगानपि विधीन् बहिरङ्गापि लुप् बाधते इति न्यायात् लुबेव प्रवर्तते, ततो विभक्तिलोपे